SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः] सूत्रस्थानम् । १७६ मधुराम्ललवणादीनामपि रसानां पाश्चभौतिकवेन मधुरखादिना ग्रहात् पृथिव्यम्वादिगुणबाहुल्यग्रहेण पञ्चेन्द्रियग्रहणमुपचर्यते इति चेन्न “द्रव्य हि प्रधानमाश्रयत्वात् । द्रव्यमाश्रिता हि रसादय इति”। ननु रसादीनामाश्रयत्वेऽपि द्रव्यस्य रसादिद्वारेणब फलसाधकखान्न रसादिभ्यो द्रव्यस्य प्राधान्यमिति चेन, यतो “द्रव्यं प्रधानमारम्भसामर्थ्यात् । द्रव्याश्रितो ह्यारम्भो यथा विदारिगन्धादिमाहत्य संक्षुदा विपचेदित्येवमादिषु न तु रसादिष्वारम्भः”। नन्वारम्भो मध्वरिष्टादौ कालपरिणामेनाम्लादिरसस्यास्ति न ह्यारम्भ आहरणक्षोदनादिव्यापारमात्र किन्तु प्रयोजननिष्पत्तिहेतुसाधनमेव, तच रसादिष्वस्ति इति चेन्न “द्रव्यं हि प्रधानं शास्त्रप्रामाण्यात् । शास्त्र हि द्रव्यं प्रधानमुपदेशे हि योगानां यथा मातुलुङ्गाग्निमन्थौ चेति न रसादय उपदिश्यन्ते” इति । . ननु रसादिद्वारेणैव द्रव्याणां कार्यविशेषमुपलभ्य योगानामुपदेशे द्रव्याण्युपदिशन्ति भिषज इति। रसा एव प्रधानमिति चेन्न “द्रव्यं प्रधानं रसादीनां क्रमापेक्षितखात्। रसादयो हि द्रव्यक्रममपेक्षन्ते यथा तरुणे तरुणाः सम्पूर्णे सम्पूर्णाः” इति। नन्वेवं द्रव्यमपि क्रममपेक्षतेऽवस्थानां यथा तारुण्ये तरुणं परिणामे सम्पूर्णमिति चेन्न “द्रव्यं प्रधानमेकदेशसाध्यखात्। द्रव्याणामेकदेशेनापि चूर्णादयः साध्यन्ते यथा महाक्षक्षीरेणेति” न रसानामिति । __ अत्र कार्यसाधकैकदेशखादित्यर्थस्तेन साध्येन न वैयधिकरण्यम् । एवं क्रमापेक्षितबादित्यत्रापि स्वक्रमापेक्षितरसादिखादिति व्याख्येयम् । “तस्मादद्रव्यं प्रधान, "द्रव्यलक्षणन्तु क्रियागुणवत् समवायिकारणमिति”। _ "तन्नेत्याहुरन्ये। रसास्तु प्रधानम् । कस्मात् ? आगमात्। आगमो हि शास्त्रमुच्यते। शास्त्र हि रसा अधिकृता यथा रसायत्त आहार इति, तस्मिंश्च प्राणाः” इति। ननु भूतायत्ता रसा रसायत्तश्चाहारस्तस्मिंश्चेत् प्राणाः सन्ति सन्तु स च द्रव्याधीन एवेति कथं रसस्य प्राधान्यमिति चेन्न “रसाः प्रधानमुपदेशात् । उपदिश्यन्ते हि रसाः। यथा मधुरामललवणा वातं शमयन्ति” इति । द्रव्येऽनुपानादौ कृत्स्ने वा तन्वं वक्ष्यते आचार्य इति शेषः । वक्ष्यते इति ब्र जो वचिरादेशात प्रयोगः। किंवा यथाद्रव्यमिति यथाहेतु, तद्यथा गुरुखरकठिनादिगुणबहुलं पार्थिवद्रव्यं तेषाञ्च पार्थिवानां गुणानां कर्मोपचयसङ्घातगौरवादीति ॥ ३२॥ . For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy