________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
चरक-संहिता। [दीर्घजीवितीयः विपरीतगुणैर्देश-मात्राकालोपपादितैः। भेषजैर्विनिवर्तन्ते विकाराः साध्यसम्मताः॥
साधनं न त्वसाध्यानां व्याधीनामुपदिश्यते ॥ ३१॥ गङ्गाधरः-तथैवं चेत्तदा प्रतिज्ञाहानिदोषः स्यात्। रौक्ष्यादिगुणैर्ट द्धो हि वातः स्निग्धादिगुणद्रव्यस्तद्विपरीतैरल्पमात्रैरतिमात्रैर्वा विपरीतगुणे देशे काले च साध्येषु व्याधिषु प्रयुज्यमानैरकाले पुनः सम्यङ्मात्रैश्च तथा काले सम्यङमात्रश्च तुल्यगुणदेशे तथा चासाध्येषु व्याधिषु प्रयुज्यमानैर्द्रव्य प्रशाम्यति। एवं पित्तं काश्चेत्याशंसायामव्यभिचारेण प्रतिक्षातुमाहविपरीतगुणैरित्यादि। रुक्षः शीत इत्यादिभिर्यथास्वोक्तवातपित्तकफगुणानां विपरीतगुणैभैषजैदेशमात्राकालोपपादितैस्तेषामेव विपरीताविपरीतगुणदेशानुरूपमात्राया भेषजानां मृदुमध्यतीक्ष्णवस्ववीर्यानुरूपेणातुरबलशरीराहारसात्मासत्त्वप्रकृतिदोषव्याधिबलानुरूपेण चानपायिपरिमाणेन यदयद भेषजस्योपयोगे उपदेष्टव्यो यो यः कालस्तैरुपपादितैस्तथाविधे देशे तया च मात्रया तस्मिन्नेव च काले वैदैनः प्रयुक्तः साध्यसम्मताः साध्यत्वेनोपदिष्टा विकारा विनिवर्तन्ते न खसाध्यखेनोपदिष्टरोगा इत्यर्थः। एतेनाशानेन
चक्रपाणिः-ननु विपरीतगुणैरल्पमात्र स्तु वाऽविपरीतदेशकालादिप्रतिबन्धैश्च न प्रशमो भवतीत्याह-विपरीतेत्यादि। देशो भूमिरातुरश्च, मात्रा अनपायि परिमाणम, कालो नित्यगः ऋत्वादिः आवस्थिको बाल्यादिश्च ; देशाद्यपेक्षया यथोचितत्वेन कल्पितो देशमात्राकालोपपादितः ; उपपादितैरिति चौरादिको णिच, किंवा वैद्य नोपपादितैः। अन्न देशग्रहणात् बलशरीराहारसात्म्यसत्त्वप्रकृतीनां ग्रहणम्, कालग्रहणात् वयसोऽपि ग्रहणम्, दोषस्तु प्रशमनीयतयैव गृहीतः, भेषजन्तु साक्षादेवोक्तम् । एवं दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसां परीक्ष्याणां दशविधानां सर्वेषामेव ग्रहणं भवति। साध्यत्वेन प्रामाणिकानां सम्मताः साध्यसम्मताः । एतेनाज्ञनाज्ञानात् ये साध्यत्वेन गृहीतास्ते निराक्रियन्ते। यत् तु सम्यक ग्रहणेन याप्ययापनमुच्यते तन्नातिसुन्दरं “विनिवर्तन्ते' इति वचनात्, न च याप्ययापनं विनिवृत्तिः। __ असाध्ये भेषजनिवृत्तिमाह-साधनमित्यादि । नन्वसाध्यानामपि साधनं दृष्टं, यतोऽरिष्टवांदवश्यं मृत्युगृहीतत्वेनासाध्यः, यदुक्तम् “अरिष्टञ्चापि तन्नास्ति यद्विना मरणं स्तावभवेत् । मरणञ्चापि तन्नास्ति यन्नारिष्टपुरःसरम्"। उत्पन्नारिष्टसाधनञ्च सुश्रुते उक्त 'ध्रुवन्त्वरिष्टे मरणं ब्राह्मणैस्तत् किलामः। रसायनतपोजप्यतत्परैर्वा निवाय्यते” इति । तथा चागस्त्यो भगवानाह,
For Private and Personal Use Only