________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
सूत्रस्थानम् ।
१७७ साध्यखबुद्धग्रा प्रतिपादितभेषजैरसाध्यव्याधिप्रशमाभावेन न क्षतिः। तत्र हेतुमाह-“साधन न वसाध्यानां व्याधीनामुपदिश्यते” इति।।
कश्चित् तु सम्मत इत्यनेन याप्यानामपि ग्रहणमाह --तन्न भद्रं, याप्यानां यापनस्य विनित्तिखाभावात्, साधनं न खसाध्यानामिति वचनविरोधाच्च । असाध्यत्व हि द्विविधं याप्यखप्रत्याख्येयखभेदादिति ।
नन्वसाध्यानामपि दृश्यते भेषजम्, उपदिष्टं हि भगवतागस्त्येन कालाकालमृत्युजयभेषजम् । “रसायनतपोजप्य-योगसिद्धर्महात्मभिः। कालमृत्युरपि प्राज्ञ जर्जीयतेऽनलसैनरैः॥” इति । तथा सुश्रतेनापि "धु वन्वरिष्ट मरणं ब्राह्मणैस्तत्किलामलैः। रसायनतपोजप्य-तत्परैर्वा निवारयते ॥” इति। तथान्यत्रापि “जातारिष्टोऽपि जीवतीति”। तस्मादत्र साधनमिति रसायनवज भेषजं भिषगादिपादचतुष्टयान्वतमं वा, तेनासाध्यव्याध्युपशमकलेन रसायनस्योक्तिन विरुध्यते। अत्राहुरन्ये “नियतमनियतञ्चेति द्विधारिष्ट, तत्र नियतमरिष्टमसाध्यमनियतन्तु रसायनादिभिः साध्यते" इति नियतारिष्टाभिप्रायेणोक्तम् । “न खरिष्टस्य जातस्य नाशोऽस्ति मरणादृते” इति, तथा “अरिष्टश्चापि तन्नास्ति यद्विना मरणं भवेत्। मरणञ्चापि तन्नास्ति यन्नारिष्टपुरःसरम् ॥” इति सुश्रु तागस्त्यवचनन्वनियतारिष्टविषय. मिति । अन्ये तु सर्वमेवारिष्टं मारयत्यसति रसायनादौ, रसायनादेः प्रभावेण “रसायनतपोजप्य-योगसिद्ध महात्मभिः । कालमृत्युरपि प्राज्ञै जर्जीयसे नालसैनरैः”। तथान्यत्राप्युक्त ‘जातारिष्टोऽपि जीवति। अत्राहुरेके द्विविधमरिष्टं नियतमनियतञ्च, तत्र नियतं यत्तदसाध्यमेव ; अत एवोक्त “न त्वरिष्टस्य जातस्य नाशोऽस्ति मरणादृते' अत्र जातस्येति वचनात् नियतस्येति दर्शयति । यत्त्वनियतमरिष्टं तत् प्रति सुश्रुतागस्त्यवचनयोरर्थवत्ता , चरकेऽप्यनियतमरिष्टमुक्तं यथा --"संशयप्राप्तमात्र यो जीवित तस्य मन्यते" इति। अन्ये तु अवते संशयप्राप्तमिति उक्तिभेदमात्रमत्र, तेन सर्वारिष्ट मारकमेवासति रसायनादौ । रसायनतपःप्रभृतयस्तु प्रभावातिशययोगात् इतरक्रिययाऽसाध्यमानमपि साधयन्ति ; तच्च रिष्टनिवारणं विरलेष्वेव पुरुषातिशयेषु नन्दिकेश्वरादिषु द्रष्टव्यं, न सर्वपुरुषैस्तत् शक्यमतो जातारिष्टानाम् असाध्यत्वेन तन्त्र प्रोच्यते। यत् तु कैश्चिदुच्यते नियतायुषो मृत्युररिष्टपूर्वो वति, अनियतायुषस्त्वरिष्टं विनैव मृत्युभवति ; तन्न, “मरणञ्चापि तन्नास्ति यन्नारिष्टपुरःसरम्" इति वचनात्। यदुच्यतेऽनियतायुषः सत्यपि रिष्टप्रादुर्भावे सम्यकक्रियोपपादनात् जीवितेन भवितव्यम्, यतोऽनियतायुषः पुरुषकारापराधादेव परं मृत्युभवति, सम्यककियायाञ्च पुरुषकारापराधो नास्ति । तन्न, न ह्यनियतायुषः सदैव पुरुषकारसाध्याः, किन्तु यथोचितकालक्रियमाणस्वस्थातुरहितसेवारूपपुरुषकारसाध्याः, तेन यथोचितकाले हितासेवनादसाध्यत्वयुक्त व्याधौ
२३
For Private and Personal Use Only