________________
Shri Mahavir Jain Aradhana Kendra
१म अध्यायः
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
1
गुरुशीत मृदु स्निग्ध-मधुर स्थिरपिच्छिलाः । श्लेष्मणः प्रशमं यान्ति विपरीतगुणैगुणाः ॥ ३० ॥ श्लेष्मस्वरूपगुणमाह-गुर्व्वित्यादि । एते गुर्व्वादयः श्लेष्मणः स्वाभाविका गुणाः, वृद्धास्तु विपरीतगुणले घूष्णतीक्ष्णरुक्षकद्रादिरसविशदादिभिर्द्रव्याश्रितैरेव प्रशमं समं यान्ति, साम्ये तु क्षयं यान्ति, क्षये चातिक्षयमिति । गुणानां विपरीतगुणैः प्रशमवचनेन गुणिनोऽपि प्रशमः ख्यापितः । मिलितयथास्वगुणसमुदायो हि द्रव्यमुच्यते नातिरिक्तमिति । सुश्रुतेऽप्युक्तं " श्लेष्मा श्वेतो गुरुः स्त्रिम्यः पिच्छिलः शीत एव च । मधुरस्त्वविदग्धः स्याद्विदग्धो लवणः स्मृतः ॥” इति यत् तेन न विरुद्धं करुस्याविदग्धले तथैव स्वभावात् लवणवकत्ते खेन लवणरसाश्रयत्वेनानुक्तत्वेऽपि न वा न्यूनखमाचाय्र्यस्य, तेन वृद्धावस्थायां वैदग्ध्ये आग्नेयेऽपि लवणरसो नोपशेते लवणविपरोतगुणैवृद्धले पुनरुपशेते । एवं पित्तस्याम्लतायामपि व्याख्येयं वस्तुतस्तु द्रव्यमेकरसं नास्तोति तेन बोध्यमिदं श्लेष्मणो यन्माधुय्यमुक्तं तन्मधुरप्रधानलवणखं तेन साम्यावस्थायां मधुरलवणयोः करुवद्धकत्वमिति । तथा पित्तस्याम्लाणुतिक्तत्वं बोध्यं तेन साम्यावस्थायां तिक्तो रसः स्वसमानाधिकरण शैत्यलाघवाभ्यां वीर्य्यरूपाभ्यामपास्तत्वान पित्तं वर्द्धयति, अपि तु नाशयति तत्प्रतिनियतशैत्यवीय्यम् । अम्लस्तु स्वरूपत उष्णवीय्यतश्च वर्द्धयतीति बोध्यम् । श्लेष्मवृद्धिहेतुरुक्तः सुश्रुतेन - “दिवास्वमाव्यायामालस्य मधुराम्ललवणशीतस्निग्धगुरुपिच्छिलाभिष्यन्दिहायनकयवकनं पवेत्कटमाषमहामाषगोधूमतिलपिष्टविकृति-दधि - दुग्ध-कृशरापायसेक्षुविकारापूपदकामांस-बसाविसमृणालकशेरुकशृङ्गाटकमधुरवल्लीफलसमशनाध्यशनप्रभृतिभिः श्लेष्मा प्रकोपमापद्यते । स शीतैः शीतकाले च वसन्ते च विशेषतः । पूर्व्वा च प्रदोषे च भुक्तमात्रे प्रकुप्यति ।।” इति । प्रकुप्यतीति वर्द्धते । एभिः प्रज्ञापराधाद्यन्तभूतै द्धस्य श्लेष्मण गुर्व्वादिगुणस्य विपरीतगुणद्रव्यैद्धा गुर्व्यादयो गुणाः शाम्यन्ति समा भवन्ति, समास्तु इसन्ति, स्वास्त्वतिहसन्तीति बोध्यम् ॥ ३० ॥
For Private and Personal Use Only
१७५
पितस्योपपन्नमेव । सुश्रुते तु तेजोरूपपित्ताभिप्रायेणैव तन्निरस्तं भवति । श्लेष्मणो विपरीतगुणैगुणानां प्रशम उच्यते न पुनः श्लेष्मणः प्रशमोऽभिधीयते ; कस्मात् १ उच्यते, गुणप्रशममेन च गुणिप्रशमो गुणवृद्वा च गुणिवृद्धिर्भवतीति सूचनार्थ; यत उष्णेन शीतप्रशमे क्रियमाणे शीताधारस्य उदकभागस्यावश्यमेव प्रशमः क्रियते ॥ ३० ॥