________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
चरक-संहिता। [दीर्घजीवितीयः व्याधौ घृतदुग्धादिकस्ने हशीतभेषजविधिन विरुध्यते। अतिस्निग्धखाल्पोष्णखयोश्च पित्तस्याल्पस्न हात्यन्तोष्णखविपर्ययात् प्रशान्तिः स्यात्। उष्णतीक्ष्णद्रवसरतिक्तनविपरीतैः शैत्यमान्द्यसान्द्रस्थिरकषायमाधुय्यंगुणः पकस्य पित्तस्य प्रशमनम्। आमस्याम्लस्य विपरीतेन तिक्तेन प्रशमः। कट्रिति तिक्त, तेन तिक्तरसस्य पित्तस्य विदग्धावस्थायामम्लरसखे तद्विपरीतखेन तिक्तरसः पित्तप्रकोपनाशकवेनोपपद्यते । उक्त हि सुश्रुते। “पित्तं तीक्ष्णं द्रवं पूति नील पीतं तथैव च। उष्ण कटु सरञ्च व विदग्धश्चाम्लमेव च ॥" इति। अत्र पूतिखेन स्निग्धवं सूचितं, नील पीतमिति यदुक्त तदत्र प्रशमनाभावेन नोक्तम् । कट्रिति तिक्तं, विदग्धश्चाम्लमिति तत्वभावात् । एतेन तन्निरस्तं यदिह तन्त्रेऽम्लखमुक्तं तदपि तेजःप्राधान्यात् पित्तस्य स्वरूपस्य । सुश्रुतेनापि विदग्धस्याम्लखमुक्त तद द्रवरूपपित्ताभिप्रायेणेति । यद्याख्यातं द्रवमिति मुक्तकण्ठेन मुश्रुतेनोक्तखाच्च। प्रकोपणश्चास्योक्तं तत्रैव । “क्रोधशोकभयायासोपवासविदग्धमैथुनोपगमनकटम्ललवणतीक्ष्णोष्णलघुविदाहि-तिलतैलपिण्याककुलत्थ-सर्षपातसीहरितकशाकगोधामत्स्याजाविकमांसदधितक्रकूचि कामस्तु-सौवीरकसुराविकाराम्लफलकटरा प्रभृतिभिः पित्तं प्रकोपमापदाते। तदुष्णरुष्णकाले च मेघान्ते च विशेषतः। मध्याह्न चाद्धरात्रे च जीर्यत्यन्ने च कुप्यति ॥” इति। एभिः प्रकोपणैः प्रशापराधादान्तर्भूतैः सने हादिगुणं पित्तं दृद्धं सस्ने हादिगुणविपरीतगुणैः स्निग्धशीतमृदुसान्द्रकषायतिक्तस्थिरादिगुणद्रव्यैः प्रशाम्यति समं भवति, समन्तु क्षीणं भवति, क्षीणमतिक्षीणं भवतीत्यर्थः। उक्त हि “विरुद्धगुणसन्निपाते भूयसा स्वल्पमवजीयते”। तत् किमिति विरुद्ध गुणभूयिष्ठस्य ग्रहणेन ? विरुद्धगुणभूयिष्ठस्यापि विरुद्धगुणशब्देनैव ग्रहणात् . विपरीतगुणभूयिष्ठे हि येऽविपरीता अल्पा अबला वा गुणास्ते स्वकार्याकर्त्त त्वात् अन्यपदेश्या एव ; किंवा सर्वथाविपरीतगुणैरधिका प्रशस्ता च शान्तिर्भवति, अत एव सम्प्रशब्दौ शीघ्रसम्यक्प्रशमार्थाभिधायकौ कृतौ ; अविपरीतगुणभूयिष्ठेर्न तथा शान्तिर्भवति, अत एव सम्प्रशब्दाभ्यां न तत् साक्षादुक्तम् । एवञ्च व्याख्यानं पित्तश्लप्मणोरपि कर्त्तव्यम्।
सस्नेहमिति ईषत्स्नेह, तेन पित्ते सपिषः स्निग्धस्य भेषजत्वमुपपन्नम्। अम्लरसता चेह पित्तस्य चोच्यते अप्तेजःसमवायारब्धत्वात् पित्तस्य। सुश्रुते तु कठुत्वमेव पित्तस्योक्तम्, अम्लता च विदग्धस्य पित्तस्योक्ता ; यदुक्तं “विदग्धञ्चाम्लमेव च"। एवं सस्नेहतायामपि पित्तस्य सुश्रुतस्य स्वरसो नास्ति ; एतच्च स्निग्धत्वमम्लत्वञ्च जलानलारब्धत्वात्
For Private and Personal Use Only