________________
Shri Mahavir Jain Aradhana Kendra
१म अध्यायः
www.kobatirth.org
सूत्रस्थानम् ।
सस्नेहमुष्णं तीक्ष्णञ्च द्रवमम्लं सरं कटु । विपरीतगुणैः पित्तं द्रव्यैराशु प्रशाम्यति ॥
Acharya Shri Kailassagarsuri Gyanmandir
लघुः खरः । तिर्य्यग्गो द्विगुण व रजोबहुल एव च ॥” इति । अत्राव्यक्तः सूक्ष्मः, तिर्यग्ग इति तिर्य्यक्चलः । द्विगुण इति शब्दस्पर्श गुणो वायुरित्यर्थः । रजो बहुलः सत्त्वतमोन्यन इति विशदत्व ख्यापितम् । एवंगुणस्य वातस्य प्रकोपणान्युक्तानि तेनैव । तद्यथा “बलवद्विग्रहातिव्यायामव्यवायाध्ययनप्रपतनप्रधावनप्रपीड़नाभिघातलङ्घनप्लवनतरणरात्रिजागरणभारहरणगजतुरङ्गरथपदातिचर्या कटुकषायतिक्तरुक्षलघुशीतवीर्य्यशुष्कशाकवल र-वरकोद्दालककोरदूषश्यामाकनीवारमुद गमसूराढकीहरेणुकलायनिष्पावानशन- विषमाशनाध्यशनवातमूत्रपुरीषशुक्रच्छद्दिक्षवथूद गारवाष्पवेगविधातादिभिर्विशेषैर्वायुः प्रकोपमापद्यते । स शीताभ्रप्रवातेषु धर्मान्ते च विशेषतः । प्रत्यूषस्यपराह्न तु जीर्णेऽन्ने च प्रकुप्यति ।।” इति । अत्र प्रकुप्यतीति वर्द्धते न तु क्षयति । वर्द्धते च स्वयोनित्वाद बलवद्विग्रहादीनाम् । एभिर्द्धस्य वातस्य स्निग्धादिगुणैद्रव्यैः शमो हासो भवति, समस्य तु क्षयो भवति, क्षीणस्य चातिक्षयो भवतीत्यर्थः । रुक्षत्वादिगुणविपरीताविपरीतसममिश्रगुणैस्तु द्रव्येन सम्प्रशाम्यति किन्तु विपरीतगुणबहुलाविपरीताल्पगुणैर्द्रव्यैः कालविलम्बेनासम्यक प्रशाम्यत्येव न तु न प्रशाम्यतीति बोध्यम् । उक्त हि “विरुद्धगुणसन्निपाते भूयसाल्पमवजीयते” इति । अत्रापीदमवधातव्यं यद द्रव्यं रौक्ष्यादिगुणविपरीत कियद गुणं रौक्ष्यादिगुणतुल्यगुणञ्च भवति तत्र विरुद्धधर्माणां मध्ये भूयसा गुणसमूहबहुला ल्पगुणसमूहोऽवजीयते तैरल्पगुणेभूयिष्ठगुणविपरीतगुणस्य भूयिष्ठगुणेजियो न बाध्यते तुल्यगुणस्य वृद्धिरपि क्रियते इत्येवं व्याख्यान' पित्तकरुयोरपि बोध्यम् ।
•
For Private and Personal Use Only
१७३
1
पित्तस्वरूपगुणमाह-सस्ने हमित्यादि । सस्नेहमुष्णमिति वचनेन स्त्र हस्याल्पत्वमुष्णत्वस्य चातिशयत्वं तद् योगादिति सूचितम् । तेन पैत्तिके तथा वायोरपि । विपरीता वातगुणप्रतिपक्षा गुणा यस्य तद्विपरीतगुणं, गुणशब्देन चेह धवाचिनो रसवर्थ्याविपाकप्रभावाः सर्व्व एव गृह्यन्ते, तेन प्रभावादपि यद्वातविपरीतं तदपि गृह्यते । अन्ये त्वेकविपरीतशब्दलोपाद्विपरीतं विपरीतगुणञ्च ग्राहयन्ति, तेन, विपरीतग्रहणात पृथक् प्रभावविपरीतं गृह्यते, गुणवैपरीत्यात् विपाकादयो गृह्यन्ते । नन्वविपरीतगुणभूयिष्ठैरपि वातादीनां प्रशमो भवति यतो न हि सव्वें भेषजं वातादीनां सर्व्वात्मना विरुद्ध स्यात् ;