________________
Shri Mahavir Jain Aradhana Kendra
१७२
www.kobatirth.org
चरक संहिता |
-
Acharya Shri Kailassagarsuri Gyanmandir
[ दोर्घञ्जीवितीयः
रुक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः । विपरीतगुणैद्रव्यैर्मारुतः सम्प्रशाम्यति ॥
व्याधिप्रशमार्थ कामादिहरण' क्रोधादिभेषजमुपदिश्यते इति हेतुप्रत्यनीकल भेषजानामिति ॥ २९ ॥
,
गङ्गाधरः - अथ देवयुक्तिव्यपाश्रयभेषजानां मध्ये देवव्यपाश्रयभेषजानामचिन्त्यत्वेन तदुपदेश न कृत्वा युक्तिव्यपाश्रयभेषजानां युक्त्यर्थ' कल्पनोपायान् प्रकृतिभूतकारणरूपरोगाणां वातादीनां धर्मविज्ञानान्युपदिशति -- रुक्ष इत्यादि । भूरिदारुणविकारकरणाद वातादीनां पूर्व पूर्वाभिधानम् । रुक्षादीनाश्च प्रशस्ततमत्वेन प्रागभिधानं तेन दारुणत्वादयोऽपि गुणा बोध्याः । रुक्षत्वं शीतत्वं लघुखं सूक्ष्मत्वं वैशय खरत्वञ्चोपदिष्टं गुणव्याख्यानेन । चलवन्तु अस्थिरत्वं ततो दारुणत्ववेगयोर्नाभिधानम् । अत्र वायोः शीतलं पूर्व्वभूतानुप्रवेशेन न महतो वायोरभिप्रायेणोक्तं, महतो वायोरनुष्णाशीतस्पर्शः । तत् केवलस्पर्श तन्मात्रवाय्वभिप्रायेण बोध्यमिति । शीतेन वायोर द्धिरुष्णेन शीतशान्तिर्हि दृश्यते दृश्यते च केवलवातारब्धव्याधौ शीतम् । इति रुक्षादिसप्तगुणो मारुतो विपरीतगुणैर्द्रव्यैरिति गुणशब्दोऽत्राप्रधानवाची, तेन सहजगुणतो वारसतो वा वीतोवा विपाकतो वा प्रभावतो वा रुक्षादिसप्तगुणविपर्ययैः स्निग्धोष्णगुरुस्थूलमृदुपिच्छिल श्लक्ष्णैः सप्त गुणा एव न खन्ये च एत च येषां तद्रव्यैः सम्प्रशाम्यति । सम्यक शीघ्रं प्रशाम्यति यावद् गुणैः क्षीणस्तावद - गुणैस्तद गुणविपर्ययद्रव्येही नोऽतिक्षीणो भवति समस्तु क्षीणो भवति वृद्धव समो भवतीति । सुश्रुतेनाप्युक्तम् । “अव्यक्तो व्यक्तकर्मा च रुक्षः शीतो ज्ञानमध्यात्मज्ञानं, विज्ञानं शास्त्रज्ञानं, धैय्यमनुन्नतिश्चेतसः, स्मृतिरनुभूतार्थस्मरणं, समाधिविषयेभ्यो निवर्त्तनात्मनि मनसो नियमनम् ॥ २९ ॥
1
For Private and Personal Use Only
चक्रपाणिः - सम्प्रति शरीररोगाधिकारप्रवृत्तत्वादस्य तन्त्रस्य शारीररोगजनकवातादिलक्षणं भेषजवाह - रुक्ष इत्यादि । प्रधानत्वादग्रे वायोरभिधानं, रुक्षादीनां ज्यायस्त्वादभिधानं तेन aroraise गुणा बोद्धव्याः । रौक्ष्यञ्च वायोरधिकं स्नेहसाध्यत्वाद् वायोब्बधकम् * अतो रुक्षत्वमग्रेऽभिहितम् । यद्यपि वैशेषिकेऽनुष्णाशीतो वायुस्तथापीह शीतेन वृद्धिदर्शनात् उष्णेन प्रशमदर्शनाच्च शीत एव वायुः, तथा केवलवातारब्धे रोगे शीतदर्शनाच्च । यच्च पित्तयुक्तस्यो - ष्णत्वं तद्योगवाहित्वात्, यथा पाषाणस्य येन द्रव्येण शीतेनोष्णेन वा योगो भवति तद्गुणानुविधानं
* योजकमित्यपि पाठान्तरम् ।