________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः सूत्रस्थानम् ।
१७१ . घटादिषु निमित्तकारण भवति ; भवति च गुणकश्रियसमवायी हेतुरेव, एवं तेषां नाशाच्च तत्तन्मयविकारघटादिनाशो यथा भवति, तथा तद्विधसमवायिहेतुविषमवातादिनाशाच्च तत्तन्मयविकारज्वरादिकामादीनां नाशः सम्पद्यत एव ; न घटादौ कपालमालादिवदवयवलक्षणा विषमवातादयः, किन्तु प्रकृतिलक्षणमृदादिवत् क्रियागुणाश्रयाः समवायिहेतव एव, न तु कुलालांदिपकादितैलादिभ्योऽपृथगघटादिपद्मादिदीपादयस्तस्मान्न निमित्तकारण वातादयः । वैषम्यनिमित्तेति निमित्तपदं कारणपर्यायो न तु निमित्तकारणार्थ, तेन वैषम्यसमवायिजा विकारसङ्घा इत्यर्थः। 'असमवायिहेतुनाशानियमेन कार्यनाशः स्यात्, यथा कपालमालासंयोगस्य कार्याणां समवायिकारणेष्वासन्नजनकलक्षणस्यासमवायिकारणस्य नाशाद घटनाशः' इति यदुच्यते तत् प्रमादवचन; न ह्यस्ति सामान्यविशेषरूपद्रव्यगुणकम्मेणाम् असमवायिख समवायिकारणत्वेनाभिहितखात्। न हि कापि गुणकर्मणी असमवायिनी काय्येपूक्ते। द्रव्याणि हि सजातीयद्रव्यमारभमाणानि कार्ये समवयन्ति, गुणाश्च सजातीयगुणमारभमाणाः कार्ये समवयन्ति, कर्माणि च सजातीयविजातीयकारभमाणानि कार्य समवयन्तीति समवायिकारणानि । सामान्यविशेषरूपस्यैव समवायस्य सर्व्ववस्तुमेलककारणव स्वरूपेणोक्त, स च नासमवायी न समवायी स्वरूपेण कार्ये वृत्तिखात्, स्वरूपसमवायीत्येवमुपपद्यते इति महर्षि भिहि गुणानां निश्चेष्टसमवायिकारणवं न खसमवायिकारणवमिति समवायिनिमित्ताभ्यां नापरं कारणमस्तीति बोध्यम् । - ननु ज्ञानविज्ञानादिभिर्मानसदोषोपशमश्चेत्तदापस्मारादिषु कथं देवयुक्तिव्यपाश्रयभेषजमुपदिश्यते इति चेत् ? न, अपस्मारादेर्मानसव्याधिखाभावात् परन्तु शारीरदोषदूषितमनःसंश्रयत्वेन मनःशरीरदोषयोमध्ये शारीरदोषजन्यत्वेन शारीरव्याधिखात्, मनोऽपि हि शरीरान्तर्गतं श्रोत्रादीन्द्रियवत् । यद्वा कालायतियोगादिभिरिव वातादिभिमनोदोषरजस्तमसोर्दूषणात् तद्धेतुवातादिप्रशमनाथं दैवयुक्तिव्यपाश्रयभेषजमुपदिश्यते, यथा कामादिजज्वरादि
सम्प्रति दोषप्रशमकारणमाह-प्रशाम्यतीत्यादि। पूर्व इति शारीरदोषग्रहणेन तजन्या व्याधयोऽपि गृह्यन्ते विकृतदोषादनन्यत्वाद् व्याधीनाम् । दैवमदृष्टं तदाश्रित्य यद्वयाधिप्रतीकार करोति तदैवन्यपाश्रयं बलिमन्तमङ्गलादि, एतच्च प्रथममुक्त सद्योऽक्ल शेन च व्याधिप्रशमकत्वात् । युक्तिर्योजना, शरीरभेषजयोहितो यो योगस्तदपेक्ष संशोधनसंशमनादि युक्तिव्यपाश्रयमुच्यते। .
For Private and Personal Use Only