________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०
चरक-संहिता। दीर्घजीवितीय जनयति। यदि च तत्र बलिमङ्गलादीनि दैवजनकानि कर्माण्यङ्गवैगुण्याई वं न जनयितु शन वन्ति, न तदा व्याधिमपि शमयन्ति। एवं लङ्घनकषायादीनि यदि दोषाधनुरूपेण शरीरे युक्तानि न भवन्ति, तदा व्याधिमपि न शमयन्ति इति बोध्यम् । व्यपाश्रयपदेन कालबुद्धीन्द्रियार्थानामयोगादिकारणवर्जन ज्ञापितं, न हि कारणासेवने सति विशेषेण व्याधीनां वजनं भवति । ___ मानस इति सत्त्वसंशाश्रयो व्याधिर्मानसदोषलक्षणरजस्तमोगुणस्तन्नाशेन तज्जनितकामादीनामपि नाशात् शान-विज्ञान-धैय्य-स्मृति-समाधिभिरोषधैः प्रशाम्यति। ज्ञान बुद्धिः सा च कर्त्तव्याकत्तव्यहिताहितेषु तत्त्वेन समदशिनी। प्रबुध्यन्ते हि लोके लोकैरध्यात्मतत्त्वपुराणेतिहासादिशास्त्रवाक्यादिश्रवणपठनादिशानः कत्तेव्याकतव्यहिताहितानि। विज्ञानं सदेवैक ब्रह्म व जगदिदमसत्यमिति तत्त्वावबोधो, न तु मोक्षे धीनिं, शिल्पशास्त्रयोहन विज्ञानमिति । धैर्य धृतिर्मनसो विषयप्रवणस्य नियमनहेतुर्बुद्धिः, स्मृतिस्तत्त्वेनानुभूतार्थस्मरणम्, अनुभूतविषयासम्प्रमोषः। समाधिोगश्चित्तवृत्तिनिरोधस्तदा द्रष्टुः स्वरूपेऽवस्थानं, तत्र ध्यानधारणयोरेकीभावः समाधिः।
ननु वातादिवैषम्यनाशेन कथं तजनितानां व्याधीनां नाशः सम्भवति ? विषमवातादयो हि रोगाणां समवायिहेतवो भवन्ति, न हि समवायिहेतुनाशेन काय्येनाशः, यथा कपालमालामाशात् न घटनाशः स्यात्। यदि च निमित्तकारणानि भवन्ति तदा कथं वातादिजनितव्याधौ संशोधनेन दोषनिहरणमुपदिश्यते, न हि कुलालसूत्रदण्डचक्रादिनाशेन घटनाशः स्यादितिअत्रोच्यते कैश्चित् । “आधारभूतनिमित्तकारणनाशात् नियमतः काय्येनाशः सम्पद्यते यथा जलपकनाशात् पद्मकुमुदादिनाशो यथा च वत्तितैलक्षयाहीपक्षयः” इति। आधारभूतनिमित्तकारणमेव विषमदोषः, स्वयं हि वक्ष्यते "स्वधातुवैषम्यनिमित्तजा ये विकारसङ्घा बहवः शरीरे। न ते पृथक पित्तकफानिलेभ्य आगन्तवस्ते तु ततो विशिष्टाः ॥” इति । तन्न सङ्गच्छते। पित्तकफानिलेभ्यो न ते पृथगिति वचनेन विषमपित्ताद्यात्मकत्वं विशिष्टव्याधीनां शापितं, तेन समवायिहेतुखमेव विषमदोषाणां लभ्यते, न तु निमित्तकारणवं, यथा न हि मृत्कनकादिः स्वस्वमयविकारेषु ऽवधारणे, तेन मानस उद्दिष्ट एव परं न शारीरदोषवत् प्रपञ्चितः, मानसदोषाणामस्मिंस्तत्र फायचिकित्सारूपे प्रस्तावितत्वादिति भावः। आदौ रज उक्त प्राधान्यात्, वचनं हि 'नारजस्कं तमः' इति, एवशब्देन सत्वाख्यगुणस्यादोषत्वमवधारयति, सत्त्व विकारि ।
For Private and Personal Use Only