________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः] सूत्रस्थानम् ।
१६६ साम्यावस्थानां वातादीनां शरीरमनोऽन्यतरादूषकवदशायामपि वैषम्यावस्थानां शरीरमनोऽन्यतरदूषणशीलखेन दोषसंज्ञानपायानहखात् लाघवाच्च । प्रकृत्यारम्भकखनिवेशेन भवतां गौरवात् । अन्यथा प्रकृत्यारम्भकलेन समवातपित्तकफानामेव मिलितानां प्रत्येकशी व्यभिचारादिति। एष च दोषलक्षणव्याध्युपदेशः सर्वेषां विशिष्टानां शारीराणां ज्वरादीनां वातादिदैषम्यनिमित्तवात् मानसानां कामक्रोधमदमानेादीनां रजस्तमोवैषम्यनिमित्तकखाद वातादीनां रजस्तमसोश्च वैषम्यप्रशमेनैव प्रशमनख्यापनार्थः सूत्ररूपस्तेनागन्तुजव्याधीनामप्युत्तरकाल यथास्वदोषसम्बन्धात् तद्दोषजनकनिदानपरिवर्जनपूर्वकतद्दोषप्रशमनेनैव प्रशमनादिति।।
स्वरूपतो रोग धमुपदिश्य तयोः पृथक् प्रशमनहेतूनाह-प्रशाम्यतीत्यादि । अत्र प्रशमनं न “न शोधयति यद्दोषान् समान् नोदीरयत्यपि। समीकरोति च क्रद्धान् तत् संशमनमुच्यते”॥ इतिलक्षणं संशमनम् । परन्तु संशोधन संशमनादियाव पेण साम्यावस्था स्यात् तत्साम्यावस्थाजनक प्रशमनम् । औषधैरिति यथोक्तगुणवद्भिभिषगद्रव्योपस्थातरोगिरूपैयुक्तियुक्तः। पूर्व इति शारीरमानसदोषखेनोक्तयोर्मध्ये यः पूर्वमुक्तः शारीरदोषो विषमवातपित्तकफरूपस्तनिमित्तकज्वरादीनां तत्पशमनेनैव प्रशमनार न तु शरीराश्रितः। दैवयुक्तिव्यपाश्रयैरिति दैवं भागधेयं, तेन द्वारेण व्यपाश्रयाणि विशेषेण अप व्याधीतां वर्जनमाश्रयन्ति यानि तैरोषधैर्वा मङ्गलदानस्वस्त्ययनादिरूपैरित्यर्थः । अस्य पूर्वाभिधान दैवमेवाधर्माख्यमशुभकारण; धर्माख्यं तद्विपर्ययात शुभकारणमिति ख्यापनार्थम्। तस्य च व्याधिप्रशमकत्वात् । युक्तियोजना दोषदृष्यमाणदेशकालवयोऽग्निबलप्रकृत्यायनुरूपेण कथितादिकल्पनभक्षणमानादिभिः प्रयोगस्तेन द्वारेण विशेषेण अप व्याधीनां वर्जनमाश्रयन्ति यानि तैरोषधैः संशोधनसंशमनदेशकाल रित्यर्थः। एतेन द्विविधमौषधं शारीररोगाणामुक्तं भवति–दैवव्यपाश्रयं युक्तिव्यपाश्रयश्च । तत्राय बलिमङ्गलदानस्वस्त्ययनदेवभूदेवगुरुसिद्धवृद्धाद्यर्च नादिरूपम् ; 'यच्च कम्मे दैवमुत्पादयद्दोषवैषम्यं नाशयद्दोषसाम्यं जनयति। अन्त्यं लवन कषायचूर्णगुड़िकादिकश्च अद्रव्यद्रव्यभूतम्, यच्च शरीरे योगमुपपद्य दोषवैषम्यं नाशयद्दोषसाम्यं वणप्रश्न वातादयस्त्रय एव तत्राप्युक्ताः “वातपित्तश्लेष्माण एव देहसम्भवहेतवो भवन्ति" इत्यादिना ; किन यदि शोणितं दोषः स्यात् , तदा वातादिवत् प्रकृत्यारम्भकं स्यात् , न चारभते तस्मात् वय एव दोषा इति सिद्धम्। मानसदोषमाह-मानसः पुनरित्यादि। पुन.शब्दो
२२
For Private and Personal Use Only