________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
चरक-संहिता। [ दीर्घजीवितीयः पित्त पञ्चवा प्रविभक्तमग्निकर्मणानुग्रहं करोति । सन्धिसंश्लेषणस्ने हनरोपणबलस्थैय्यकृच्च श्लेष्मा पञ्चधा प्रविभक्त उदककर्मणाऽनुग्रह करोति । रसः पीणयति तुष्टिं रक्तपुष्टिश्च करोति । रक्तं वर्णप्रसादं मांसपुष्टिं जीवयति च । मार शरीरपुष्टि मेदसश्च । मेदः स्नेहस्वेदो पुष्टत्वं पुष्टिमस्थ्नाञ्च । अस्थि देहधारण मजज्ञः पुष्टिश्च । मज्जा प्रीति स्नेह वलं शुक्रपुष्टि पूरणमस्थ्नाञ्च करोति । शुक्रं धैय्य च्यवन प्रीतिं देहवलं हर्ष वीजार्थश्च । पुरीषमुपष्टम्भं वाय्वग्निधारणश्च। वस्तिपूरणविक्ले दकनमूत्रम्। स्वेदः क्लदखक्सौकुमार्यकृत् । रक्तलक्षणमात्तवं गर्भकृच्च। गौ गर्भलक्षणम् । स्तन्यं स्तनयोरापीनबजननं जीवनश्च ति। तेषां विधिवत् परिरक्षण कुव्वी त” इति। ___एपां वातादीनां रसादीनाश्च क्षयवृद्धिभ्यां हृत्पीड़ादिहदयोतल शादि यद भवति तदपि वातादिदृषितरसादिभिः क्रियते न तु वातादिदूपणमन्तरेण । रसरक्तजलादिना व्यपदेशस्तु स्नेहदहनेन दग्धे ने हदग्धव दित्यस्य च दर्शनाद्वा ते हि वातादीनां शरीरादिषणेन प्रशंसायां शरीरादिधारणादिना च प्रशंसायां दोषसंज्ञा न खप्रशंसायां दोषसंज्ञा प्रशंसायां धातुसंज्ञाचार्याणामभिप्र तेति प्रभाषन्ते । अत्र वयं ब्रूमहे-अत्र वचने वातादीनां प्रकरणात् वैषम्यलक्षणे दोपे लब्धे तत एव दोपसंज्ञानुभवसिद्धा स्यात् प्रकृत्यारम्भकत्वे तु नानुभवसिद्धा भवति। ___ अथ प्रकरणमत्र रोगारोग्ययोः, तेन विषमवातादीनां रोगत्वात् समवातादीनामारोग्यखात् प्रकरणसिद्धव प्रकृत्यारम्भकखदपकवयोर्दोषसंज्ञति चेन्न, "प्रशाम्यत्यौषधैः पूर्वः” इत्यादिवक्ष्यमाणवचनेन रोगप्रशमनस्योक्त्या विषमवातादीनामेव दोषसंज्ञाख्यापनात् । तत्र हि पूर्व इति शब्देनात्रोक्तरोगारोग्यपरशरीरदोषवातादिर्न सम्भाव्यते। यदि तत्र पूर्व इति शब्देन “शरीरं सत्त्वसंज्ञञ्च व्याधीनामाश्रयो मतः” इत्यत्रोक्तशरीराश्रितो रोग उच्यते, तदात्र शारीरमानसव्याधीनामेतदध्यायादिचतुरध्यायैः पृथक् पुनः प्रशमनहेतूपदेशस्यैव पृथकप्रकोपणहेतूपदेशस्यावश्यकर्तव्यखापत्तिः स्यात् । तस्मादत्र दोपशब्दः शरीरमनोऽन्यतरदूषके यौगिकत्त्या सङ्केतितः कृत इत्येवमनुभूयतेऽन्यत्रापि तस्माद् दूष्णाधिकारे दोषकृते कार्ये दूष्येण व्यपदेशः, रक्तजोऽयं मांसजोऽयमित्यादि, यथा-- स्नेहाधारेण वह्निना दग्धे स्नेहदग्ध इति व्यपदेशः। दोषसंज्ञा तु पीडाकर्त्त त्वसामान्याददोषेऽपि स्यात् , यथा - "स्वयं प्रवृत्तं तं दोषमपेक्षेत हिताशनैः” इत्यत्र पुरीषमेव दोपत्वेनोक्तम् । सुश्रुते तु शोणितस्य दोषत्वं, व्रणेषु प्रायः शोणितदुष्टिदर्शनादुपचरितमेवोक्त ; यतः प्रदेशान्तरे
For Private and Personal Use Only