________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६
चरक संहिता 1
[ दोर्घञ्जीवितीयः
रूपसिद्धिः । करु इति ऋक दानश्लाघहिंसासु तौदादिको हिंसार्थे संज्ञायामच् "कश्वादेरिति कफः । एषां शारीरमानसानां पञ्चानां वातादीनां दोपत्व, दुषः कत्तेरि अचप्रत्ययान, साक्षाद दूपण' वृद्धिहासलक्षणं स्वभावसंसिद्धं रसादीनां सत्त्वादीनाञ्च तैदृ ष्यत्वं स्वभावसंसिद्धं न तु दूषकत्वम् । शारीरमानसपदाभ्यां वाह्य रेखहिताहार देश - कालाभिचाराभिशापाभिघाताभिषङ्गादीनां साक्षाददूषकाणां व्यवच्छेदः । साक्षात्पदेनायोगादियुक्तप्रशायाः शारीरत्वेऽपि मानसत्वेऽपि च सावदुपणकत्तं त्वाभावान्न दोषत्वम् । अयोगादियुक्ता प्रज्ञा हि वाङ्मनः शरीराणामयोगादियोगेषु कारण, तानि चायोगादियुक्त्या प्रवर्त्तयन्ति अहिताहारविहाराव सात्म्येन्द्रियार्थसंयोगञ्च जनयन्ति । ते च वातादीन् रसादीन् सत्त्वं रजस्तमश्च दूषयन्तीति परम्परया दूषणकत्ते खादिति, ततो वाह्यतः प्रज्ञापराधाच दोषा अपि शारीरत्व नानसत्वविरहान्न दोषसंज्ञयाभिधीयन्ते । एवं रसादिसत्त्वादिधातूनां क्षयवृद्धिमतां वातादिसाक्षाद दूषकत्वेऽपि न दोषख रसादिसत्वादिक्षय वृद्धिप्रतिनियतहेतुभिः पूर्व वातादीनां दूषण' क्रियते तच दूषितवातादिभिस्तद्धेतुप्रतिनियतशक्त्या रसादयो वन्ते वा क्षाय्यन्ते, ततः शारीराणामेकत्रवृत्ता परस्परसम्बन्धात् तु यदपि दोषदुपकत्व क्षीणद्धरसादीनां तन्न साक्षाद दूपणकत्ते खम् । कर्त्ता हि स्वतन्त्रः 1 स्वेतराप्रयोज्यत्वे सति स्वेतरप्रयोजकत्वं स्वातन्त्री, तच वातादेव ह्यहेतुतो वैषम्य रसादिदूषणे स्वेतराप्रयोज्यत्वमस्त्येवेति नाप्रसङ्गः । “पित्तं पङ्ग, कफः पङ्गः पङ्गवो मलधातवः । वायुना यत्र नीयन्ते तत्र गच्छन्ति मेघवन् ॥” इति चेत् ? तत्रायमभिसन्धिः काय्यः - पित्तक कयोदूष्यदूपणे वातस्य न प्रयोजकत्वं, तयोरपि पाञ्चभौतिकत्वेन सक्रियत्वात् परन्तु पङ्गत्व वातापेक्षया । वातस्य वा विषमस्य समानां वा विषमाणां चालकत्वस्वभावात् । यथा झञ्झा वायुः
तथा च
तथा दोषसंज्ञा च चरके कृता; यदुक्तं "कफे वाते जितप्राये पित्तं शोणितमेव वा । यदि कुप्यति वातस्य क्रियमाणे चिकित्सिते । यथोल्वगस्य दोषस्य तत्र काय्यै भिषग्जितम्' इति । तन्त्रान्तरेऽपि शल्ये शोणितं दोषत्वेनोक्त', "तैरेतैः शोणितचतुर्थैः” इति वचनात् । नैवं, दोषो हि स्वतन्त्रदूषणात्मक उच्यते यतो न वातादयो वृद्धाः किञ्चिदपेक्ष्य दूषयन्ति किन्तु स्वत एव, शोगितन्तु दृष्टवादिसंसगंमपेक्ष्यैव दूषकं भवति, न हि शोणितं विकृतवातादिसम्बन्धमन्तरेण विकृतं स्यात् सर्व्वदा वातादिजन कैरेव शोणितदुष्टे, तथा सव्र्वदा वातादिलक्षणयुक्तस्यैव शोणितस्य दुष्टत्वात् ; यश्च हेत्वादिविशेष उक्तः स वातादियुक्तस्यैव शोणितस्य स्यात्, एतेन वातादय एव तत्रापि दूषणात्मकाः । शोणितन्तु स्वप्रमाणातिरिक्तमपि दृष्यमेव, न च दृष्यस्य हेत्वादयो विशिष्टा
For Private and Personal Use Only