________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः सूत्रस्थानम् ।
१६५ प्रशाम्यत्यौषधैः पूर्वो दैवयुक्तिव्यपाश्रयैः ।
मानसो ज्ञानविज्ञान-धैर्यस्मृतिसमाधिभिः ॥ २६ ॥ विकारो धातुवैषम्यमित्युक्तः। तथा च विषमो वायुः पित्तश्च विषमं विषमश्च कफ इति त्रिविधः शारीरो दोषसंग्रहः। शरीरदृषणशीलखाच्छारीरदोष एष संग्रहेण उद्दिष्टः। पञ्चात्मा हि वायुः पश्चात्मकं पित्तं पञ्चात्मा कफ इति वहुवेऽपि वायुपित्तकफवसामान्यात् संग्रह इति । शरीरन्तु चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकम्। तच्च सेन्द्रियं निरिन्द्रियञ्च द्विविधमपि वेदाधिकरणत्वात् सेन्द्रियमत्र ग्राह्यम् । एतेन यतो विषमा वायुपित्तकफा वातपित्तकफवग्रसरक्तमांसमेदोऽस्थिमज्जशुक्रवसालसीकोजोरजःस्तन्यमूत्रपुरीपादयो यावन्तो धातवः सन्ति शरीरे तावद्धातुपका भवन्ति न तु समास्तस्माच्छारीरदोपसंशकाः ।
मानसः पुनदोपसंग्रहो रजश्च तमश्च व, न तु सत्त्वं शरीरवग्रसादिवत् मनोदृषणशीलखान्मानसदोपः संग्रहणोद्दिष्ट इत्यर्थः। मनरखाहकारिकविकृतसत्त्वगुणप्रधानत्रिगुणविकारसमुदायात्मक चेतनाधिष्ठानभूतमहदहङ्काराश्रयः। एतेन सत्त्वरजस्तमांसीति त्रयो गुणाः समविषमरूपेणाव्यक्तमहदहङ्कारमनसां प्रकृतिभूतधातवो मनसि वर्तन्ते तेषां दृषको यतो रजस्तमोगुणी विषमावेव भवतो न तु समौ तस्मान्मानसदोपसंशको, मनस आरम्भको ह्याहङ्कारिको रजस्तमोगुणी मनसि वत्तेते ; यथा शरीरस्य भूतान्यारम्भकाणि शरीरे वतन्ते। समवं तु विधानशरणपोषणैः शरीरमनसोः क्रमाद्धातुतादिश्च रजस्तमश्चेति।
तत्र वा गतिगन्धनयोरिति धातोरुण-कृद योगे वायुः। तप सन्तापे इति कर्तरि क्तप्रत्ययः, संज्ञायां वर्णागमविपर्ययाभ्यां पृषोदरादिखात् पित्तमिति शरीरमूलभूताग्निहेतुत्वात् तथा कफाधिकविकारकारित्वात् तथा कफापेक्षया चाशुमारित्वात् । असमासकरणन्तु पृथगपि वारवादीनां रोगकत्तृत्वोपदर्शनार्थम्। शारीर इति मानसदोषव्यवच्छेदार्थ, संग्रह इति "द्वपल्वणैकोल्वणैः षट स्युहीनमध्यादिकैश्च पट' इत्यादि वक्ष्यमाणप्रपञ्चस्य संक्षेपः। ननु शोणितस्यापि दोषत्वान्नात्र संग्रहः साधुः, यतो रक्तस्यापि वातादिवद्विशिष्टहेतुलक्षणविकारचिकित्सितनिर्देशः कृतः ; तत्र हेतुनिर्देशो यथा-“काले चानवसेचनात्' इत्यादि ; लक्षणञ्च यथा-"तपनीयेन्द्रगोपाभं पद्मालक्तकसन्निभम्' इत्यादि; रक्तविकाराश्च रक्तार्शः-प्रदर-रक्तपित्तादय उक्ताः ; उपक्रमश्च "स्रावणं शोणितस्य तु” इत्यादिनाक्तः ;
For Private and Personal Use Only