________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः सूत्रस्थानम् ।
१५५ सम्बन्धो गुरुशिष्यभावादिः। आनन्तयं प्रोक्षणावघातादेरुत्तरकालः । वियोगो यथा दारादेः। एकका- अन्तेवासिप्रभृतयः परस्परस्मारकाः। विरोधादहिनकुलादेः स्मरणमन्यतरेणान्यतरस्य। अतिशयः येनातिशय उत्पादितः । उपनयनादिसंस्कारादिः आचार्यादिस्मारकः। प्राप्तिर्धनादेर्दातारं स्मारयति । व्यवधानमावरणं, यथा खड़ गादेः कोशादिः। सुखदुःखयोरन्यतरेणापरस्य, ताभ्यां तत्प्रयोजकस्य कारणस्य वा स्मरणम् । इच्छाद्वषो यद्विषयकतया ग्रहीतव्यस्य स्मारको। भयं मरणादर्भयहेतोर्वा स्मारकम् । अर्थिवं दातुः। क्रिया शाखादेर्भङ्गादिक्रिया वायवादेः स्मारिका । रागात् पीतेः, पुत्रादेः स्मरणम् । धर्माधर्माभ्यां जन्मान्तरानुभूतसुखदुःखसाधनयोःप्रागनुभूतसुखादेचस्मरणम् । इत्येवमक्षपादगोतमेन न्यायसूत्रैर्बुद्धीच्छाद्वेषप्रयत्नस्मरणानां यदात्मगुणवं स्थापितं, तदात्मनः शरीरले सत्त्वशरीरसंयोगान्मुग्धावस्थायामुपाधिमत एवात्मनो गुणाभिप्रायेण न कैवल्ये। प्रवृत्तिसूत्रे हि प्रवृत्तिर्वाग्बुद्धिशरीरारम्भ इत्यत्र बुद्धिशब्दैन बुद्धनाश्रयखान्मन एवाभिप्रत्योक्तिः। बुद्धेः कम्मैवत्त्वाभावात् । एषा तु वाग्बुद्धिशरीरारम्भलक्षणा प्रवृत्तिः क्रिया। वक्ष्यते चास्मिंस्तत्र "कर्म वाङ्मनःशरीरप्रवृत्तिरिति” एतेन सहैकवाक्यखाच्च। बुद्धग्रादीनामेषामुत्पन्नखापसारिखवचनाच। तद यथोक्तं न्यायसूत्रम्। कमानवस्थायिखग्रहणात्। बुद्धिरुत्पन्नापवर्गिणी कानवस्थायिग्रहणात् न कालावस्थायिनी कुम्भवत्। यथा कानवस्थायि निक्षिप्तशरादेवेगनिवृत्तौ कम्मणोऽसत्त्वात्। तथा बुद्धिरपि व्यवसायनिवृत्तौ सत्त्वाभावान चिरावस्थायिनी अतएवोत्पन्नखमपसारिखञ्च बुद्धेः। वक्ष्यतेऽत्र तत्र शारीरे। “इन्द्रियाभिग्रहः कर्म मनसस्वस्य निग्रहः। अहो विचारश्च ततः परं बुद्धिः प्रवर्तते ॥ इन्द्रियेणेन्द्रियार्थी हि समनस्केन गृह्यते। कल्पाते मनसातूद्ध गुणतो दोषतो यथा ॥ जायते विषये तत्र या बुद्धिनिश्चयात्मिका। व्यवस्यते तया वक्तुं कर्तुं वा बुद्धिपूर्वकम ॥” इति।।
बुद्धावस्थानात् प्रत्यक्षले स्मृत्यभावः। कुम्भवदवस्थायिनी चेबुद्धिस्तदा प्रत्यक्षवेन बुद्धरवस्थानात् स्मृतिने जायते ॥ __ तबाह वादी। अव्यक्तग्रहणमनवस्थायिखाद्विद्युत्सम्पात रूपाव्यक्तग्रहणवत्। यथा चिरानवस्थायिविद्य त्सम्पाते तद्विद्य ज्जातालोकात तु भावानां रूपस्याव्यक्तग्रहणं न तु सर्वतोभावेनाशेष विशेषधर्मविशिष्टरूपग्रहणम् । तथा बुद्धरनवस्थायित्वाद्भावानामव्यक्तग्रहणमस्तु न तु भावानामशेषेण ग्रहणं भवतु ।
For Private and Personal Use Only