________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६ चरक-संहिता।
{ दीर्घजीवितोयः अत्र विदुत्सम्पाते रूपाव्यक्तग्रहणवदिति दृष्टान्तहेतुस्वीकाराद्वाक्तग्रहणप्रतिषेधमभ्यनुजानाति। हेतूपादानात् प्रतिषद्धव्याभ्यनुज्ञा। उक्तदृष्टान्तरूपहेतुस्वीकाराद बुद्धरनवस्थायित्वाद्ववक्तग्रहणं यत्प्रतिषेद्धव्यं तस्याभ्यनुज्ञास्वीकारोऽस्तु । किन्तु दृष्टान्तान्तरेण बुद्धरनवस्थायितेऽपि व्यक्तग्रहणं स्यादिदमाह
प्रदीपाचि सन्तत्यभिव्यक्तग्रहणवत तद ग्रहणम् । बुद्धरनवस्थायित्वेऽपि विदुयत्सम्पाते रूपाव्यक्तग्रहणवद्भावानामव्यक्तग्रहणं न, किन्तु प्रदीपाच्चि:सन्तत्यभिव्यक्तग्रहणवत्तद भावाभिव्यक्तग्रहणवत् तद ग्रहणमेव स्यात् । यथा प्रदीपार्चिषां सन्तत्या सन्तानेन रूपाणामभिव्यक्तग्रहणं स्यात्तथा बुद्धरनवस्थायितेऽपि ज्ञानविशेषसन्तानेन भावानामभिव्यक्तग्रहणं भवतीति सिद्धान्तः।
नन्वेवश्चत् कथमात्मनि बुद्धयादय आधीयन्ते कुत्र वा प्रसिद्धाः सन्ति जाता इति, उच्यते। मनः सत्त्वसंशकमेकं मूक्ष्मश्चाचेतन क्रियावत्। आत्मा पुनरेकः सूक्ष्मश्चेतनश्च निगुणो निष्क्रियश्च लौकिकगुणकाभावात् । समसत्त्वरजस्तमोगुणा ह्यलौकिका अलौकिकगुणवत्त्वान्न सगुणवं व्यवहियते । तस्मात् . प्रकाशकसुखयोगकृत्समसत्त्वेनोपाहितले नित्यचैतन्यधीधृतिस्मृतिनिवृत्ताख्यप्रयत्नसुखवान् रागात्मकप्रवर्तकसमरजःसत्त्वात् द्वेषदुःखशून्यो नित्येच्छाप्रवृत्तयाख्ययत्नवान्। मोहावरणात्मकसमतमसोपहितखे मोहनकृदज्ञानकृच्छक्तिमान् । एवंलक्षणोऽपि स्वरूपतो निर्लक्षणो निर्गुणो निष्क्रियो निर्विकार आत्मा आदिसर्गे तु यद्विपमो भूखा महानभूल्लोकावस्थायां ने चेदानीं शारीरावस्थायां पुनरिदानीञ्च नैवंविधो भवतीति शारीरावस्थाझापनाय निर्गुणो निर्विकारो निष क्रिय आत्मा सत्त्वशरीरसंयोगाद्विशेषोपलब्धिरौपचारिकगुणविकारक्रियावानित्युपदिशति। तद यथा स आत्मा शरीरसगै मनसा युज्यते गुणग्रहणाय। वक्ष्यते हि शारीरे। "तत्र पूर्व चेतनाधातुः सत्त्वकरणो गुणग्रहणाय प्रवर्तते” इति। मनःसंयोगादात्मा चेतनवगुणेनाचेतनं मनश्च तयत्यात्मतो मनसि चेतनोत्पदाते। तथा चात्मोपचर्यते मनःक्रियया अतः सा चेतनात्मलिङ्गम् मनश्चैतन्ये जाते मनसि स्थितो महान् प्रज्ञाविदयादिसंज्ञो जीव आत्मा चेतनो भवति तेनोद्रिक्तमहता बिदाबुद्धयात्मोपचर्यते। तेन महता विबुद्धोऽहमिति यदा मन्यते तदा मनसि स्थितोऽनादिरविदग्राहम्मतिरूपोऽहकार उद्रिक्तो भवति। वक्ष्यते च शारीरे। “अव्यक्ताज्जायते बुद्धिबुद्धग्राहमिति मन्यते । परं खादीन्यहङ्कार उपादत्ते यथाक्रमम् ॥” इति । तेनाहकारोद्रेकेणात्मोपचयते ततोऽस्मिन् राशि
For Private and Personal Use Only