________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४ चरक-संहिता।
दीर्घजीवितीयः तत्राहुर्नास्तिकाः। मद्य या मदशक्तिः सा किं पिष्टादिगुणका- ? तर्हि च केन गुणेन कृता ? कश्च गुणो मदशक्तिः ? न शब्दादिषु न गुरुवादिषु न परापरवादिषु न बुद्धीच्छादिषु कोऽपि दृश्यते मदो नाम गुणाख्या शक्तिरिति । ___ तत्राह-मद्ये मदशक्तिर्न गुणः। मदवारम्भकाणां पिष्टगुड़मध्वादीनां यदयस्य कर्म तैः कर्मभिरारब्धं स्वस्वकर्म विरोधि कम्प्रे यदुच्यते प्रभाव इति ।
तत्राहुर्नास्तिकाः। विनात्मानं शरीरादिसङ्घातेऽपि पुरुष महदादिभिरारब्धे महदादीनां कर्मवतां कर्मभिरारब्धं स्वस्व कर्मविरोधि कर्म चैतन्यादिक ज्ञानमिति।
तत्राह-चैतन्यादिकं न कम्म पुरुषस्य गुणमध्ये सवर्महषि भिः पठितलात् । संयोगविभागेष्वकारणबाच गुणः । शरीरशिथिलीकरणात् तु मदशक्तिः संयोगविभागेषु कारणं कम्मैवेति । __ तत्राहुर्नास्तिकाः। तहि कारणगुणपूचकः काव्यगुणो दृष्ट इत्ययुक्तमुक्तमिति। नैवमाहुर्महव यः। गुणशब्देन कर्म गुणवचनात् । द्रव्यापेक्षया गुणीभावात्। द्रव्याश्रितवाच। द्रव्यप्राधान्यादिति।। __ अथाक्षपादगौतमश्चाह। बहथोपपत्तेरात्मनश्चतन्यादिज्ञानं न शरीरादिसंहतरूपस्य। जातिस्परणादानुपपत्तः। अनित्यखात् संहतरूपस्येति । स्मरणन्वात्मनो ज्ञस्वाभाव्यात् । स्मरणश्चात्मनो गुणः। कस्मात् ? ज्ञस्वाभाव्यात्। ज्ञानवत्स्वभावखात्। शोहि भावान् शाखा कारणवशात् स्मरति नाशो मनःप्रभृतिस्वशः। .
ननु स्परणं केभ्यो हेतुभ्यः स्यादित्यत उक्तमणिशनलिङ्गादिक सर्व विवृणोति ।
प्रणिधान-निबन्धाभ्यास-लिङ्ग-लक्षणसादृश्य-परिग्रहाश्रयाश्रित-सम्बन्धानन्तर्यवियोगैककार्या विरोधातिशय-प्राप्तिव्यवधान-सुखदुःखेच्छाद्वेषभयार्थिवक्रियारागधमाधम्म निमित्तेभ्यः । प्रणिधानादिभ्यो निमित्तेभ्यः स्मरणमात्मनः उत्पाते। तत्र प्रणिधानं मनस एकाग्रलं, तच विषयान्तरसञ्चरणाभावः सुस्मृषया मनसि धारणम् । निबन्ध एकग्रन्थोपनिबन्धनं, यथा प्रमाणेन प्रमेयादिस्मरणम् । अभ्यासः शीलन सततक्रियेत्यनान्तरम् । लिङ्गमनुमानकारणं संयोगिसमवाय्येकार्थसमवायिविरोधि च । लक्षण लक्ष्यसाधनम् । यथा कपिध्वजादिरज्जु नादः। सादृश्यं साम्यं चित्रादिगतप्रतिरूपं देहादः। परिग्रहः सव्वतोग्रहः। आश्रयाश्रितौ राजादितत्परिजनौ परस्परस्मारको।
For Private and Personal Use Only