________________
Shri Mahavir Jain Aradhana Kendra
१म अध्यायः }
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१५३.
भूतमनसां स्वस्वकृतकम्म फलाभ्यागमाभावात् । स्वकृतकर्मफलोपभोक्ता ह्यात्मा स्वतन्त्रः । इति ।
तहि कस्य चैतन्यादिज्ञानमित्यत आह-परिशे राद यथोक्त हेतूपपत्तेश्चात्मनः । इन्द्रियार्थभूतमनोभ्यः परिशिष्टोऽस्मिन् राशिपुरुषो खल्वात्मा, तस्यैव चैतन्यादिगुणः, स एवास्य सत्त्वभूतगुणेन्द्रियैः सहितः संयं तन्ये कारण' भवतीति सत्त्वशरीराभ्यां पर आत्मास्तीति नात्मव्यतिरिक्तः, सत्त्वशरीरसंहतः पुरुष आत्मा नास्तीति होवाचाक्षपादगौतमः ।
साङ्ख्य कपिलेनाप्युक्तम् । शरीरादिव्यतिरिक्तः पुमान् । संहतपरार्थत्वात् । शरीरचोक्तम् । पाञ्चभौतिको देहः । सप्तदशकं लिङ्गम् । अध्यवसायो बुद्धिः । अभिमानोऽहङ्कारः । पञ्चमहाभूतानि दशेन्द्रियाण्येकादश मन इत्येतेभ्यः शरीरादिभ्यो व्यतिरिक्तः पुमानात्मा ।
तत्राहुर्नास्तिकाः । आत्मव्यतिरिक्तः शरीरादिसंहतः पुमान् नास्त्यात्मा । तत्र सांसिद्धिकं चैतन्यमिति ।
तत्राह - न सांसिद्धिकं चैतन्यं प्रत्येकादृष्टेः । विनात्मान' शरीरादिसङ्घाते चैतन्यं न सांसिद्धिकम् । कस्मात् ? प्रत्येकादृष्टेः । महदादीनां त्रयोविंशतेः पुरुषारम्भकाणां प्रत्येके चतन्यादर्शनात् । कारणगुणपूर्वको हि कागुणदृष्ट इति ।
प्रपञ्चमरणाद्यभावश्च । शरीरादिव्यतिरिक्तस्य प्रपञ्चमरणाद्यभावश्च, शरीरादिसंहतस्य तु प्रपञ्चमरणादिमत्त्वादनित्यत्वमिति ।
तत्राहुर्नास्तिकाः । शरीरादिसंहतीभावे जायमाने संयोगादेव चैतन्य जायते मदशक्तिवदिति ।
तत्राह मदशक्तिवच्च ेत् प्रत्येकपरिदृष्टे सहित्ये तदुद्भवः । मद्ये या मदशक्तिर्न सा खल्बमदकरारम्भे निरुपादाना जायते । मदनारम्भकाणां पिष्टगुड़मध्वादीनां प्रत्येकेऽनभिव्यक्तरूपेण परिदृष्टे मदकरे भावे सहित्ये तदुद्भव उद्भ तत्वं जायत इति कारणगुणपूर्धक एव कार्य्यगुणः स्याद गुरुत्वादिवत । न खनुपादानः स्यादिति । तस्माच्छरीरादिव्यतिरिक्तः पुमानित्यतस्तु अस्त्यात्मा न तु नास्त्यात्मेति । कणादेनाप्युक्तं वैशेषिके । द्रव्यगुणयोः सजातीयारम्भकत्वं साधम्म्यम् । द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् । कर्म्म कम्मसाध्यं न विद्यते इति ।
२०
For Private and Personal Use Only