________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1म अध्यायः
सूत्रस्थानम् । तत्राहुर्नास्तिकाः । स्मरतः शरीरवारणोपपत्तेरप्रतिषेधः। स्मरतः शरीरधारणमुपपदाते धारकपयनेन। शरीराद्वहिनिःसृते हि मनसि धारकप्रयत्नस्थाभावः स्यात् पतनश्च शरीरस्य गुरुखाद्भवतीति अन्तःशरीरत्तिलं -मनसो वत्तेत एव स्मरतो जनस्य। आत्ममनःसंयोगजस्तु प्रयत्नः प्ररको धारकश्च द्विधा । प्रेरकप्रयत्न न मनः प्ररितं सुस्मृषया स्मत्तव्ये पुसा प्रणिधीयते चिरादपि कश्चिदर्थ स्मरतीति अन्तःशरीरकृत्तिवप्रतिषेधो न भवति ।
तत्राह-न तदाशुगतिखान्मनसः। शरीरधारणस्योपपत्तितो मनसः खत्वन्तःशरीरत्तिखाप्रतिषेधो न। कस्मात् ? तदाशुगतिखान्मनसः। मनो ह्याशुगति। आत्मना प्रेरितं ज्ञानसमवेतात्मप्रदेशेन ज्ञानहेतुसंस्कारवता धावत् सन्निकृष्यते स्मत्तव्यं स्मृता प्रत्यागतं वहिःशरीरं धारयतीत मनसस्तदाशुगतिखात्। ___ तत्राहुर्नास्तिकाः। न स्मरणकालानियमात् । मनस आशुगतिखादात्मप्रदेशसन्निकर्षों वाह्यशरीरागमन न। स्मरणकालानियमात् । 'किश्चित् चिरेण स्मय्यते किञ्चित्द्रतमिति शरीरसंयोगानपेक्षस्त्वात्ममनःसंयोगो न स्मृतिहेतुः शरीरस्य भोगायतनखात् ।
तत्राह-आत्मप्रेरणयदृच्छाशताभिश्च न संयोगविशेषः। आत्मना मेरणेन मनसो वहिःशरीरात् संयोगविशेषो न स्यात्। आत्मनो यदृच्छया (या इच्छा यदृच्छा ) अकस्माद्वा न वहिःशरीरात् संयोगविशेषः स्यात् । न वा शतया शता बुद्धिशक्तिस्तयापि न वहिःशरीरात् संयोगविशेषः। शरीरसयोगात्त आत्मन एव शतया कार्यकारण-करण-प्रयोजनान्यध्यवस्य यदृच्छया तथा स्यादन्यथा न स्यादित्येवमभिमतं प्रेरणप्रयत्नेन मनः साधयितुं प्रेरयतीति न मनसश्चतन्यादयो बुद्धयो न वत्तन्ते । ____ तत्राहुर्नास्तिकाः । तल्लिङ्गखादिच्छाद्वेषयोः पार्थिवादिष्वप्रतिषेधः । पार्थिवादिषु शरीरेषु ज्ञानादयः सन्ति न तेषां प्रतिषेधः ।
कस्मात् ? इच्छाद्वेषयोस्तल्लिङ्गखात। शरीरस्यारम्भकाणि पृथिव्यादीनि भूतानि तेषां प्रत्तिः शरीरारम्भस्तथा प्रत्तेलौष्ट्रादिष्वभावो नियत्तिरिति प्रवृत्तिनिवृत्ती इच्छाद्वषाभ्यां जन्यते इति पृथिव्यादिषु शरीरारम्भप्रत्तिदर्शनाल्लोष्ट्रादौ तथा प्रवृत्त्यभावदर्शनाच्च। पृथिव्यादिष्विच्छाद्वेषयोगाच्चतन्यादिशानयोगः । ऋते चैतन्यादिशानादिच्छाद्वषो न भवत इति तस्मात सत्त्वशरीरसङ्घात एव पुमानास्ति तद् व्यतिरिक्त आत्मेति ।
For Private and Personal Use Only