________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः सूत्रस्थानम् ।
१४६ तत्राह-इन्द्रियैमनसः सन्निकर्षाभावात्तदनुत्पत्तिः। सूक्ष्मस्यकस्य मनसो युगपन्नानेकेन्द्रियेषु सन्निकर्षासामर्थ्यात् युगपन्नानाविषयोपलव्धेरनुत्पत्तिः । आत्मेन्द्रियसनिकऽपि आत्मनस्तु चैतन्याद बुद्धिरुत्पद्यते सूक्ष्मखादकलाच्च न युगपन । युगपजज्ञ यानुपलब्धेरिति भावः । __ अत्राहुर्ना स्तिकाः । नोत्पत्तिकारणानपदेशात् । आत्मनश्च तन्यादात्मेन्द्रियसन्निकर्षाद, बुद्धिरुत्पद्यते न। कस्मात् ? उत्पत्तिकारणस्यानपदेशात् । येन कारणेन येन प्रकारेण बुद्धिरुत्पदाते तद्वचनाभावात् । इन्द्रियार्थसन्निकपोत्पन्न शानमित्युक्त्येन्द्रियार्थसन्निकर्षस्य बुद्धात्पत्तिहेतुखख्यापनात् । या यदिन्द्रियजा बद्धिः सा तथैव व्यपदिश्यते । श्रावणी बुद्धिः श्रवणजा, स्पर्शनात्तु स्पशेनबुद्धिश्चाक्षुषी बुद्धिश्चक्षुर्जा, रासनी बुद्धिस्तु रसनजा, घाणबुद्धिर्घाणजा, मानसी बुद्धिमेनोभवति व्यपदेशो दृश्यते। वक्ष्यते हि शारीरेऽस्मिंस्तन्त्र । “या यदिन्द्रियमाश्रित्य जन्तोर्बु द्धिः प्रवर्तते । याति सा तेन निर्देश मनसा च मनोभवा ॥” इति ।
अपरश्च दोषमाहुः। विनाशकारणानुपलब्धेश्वावस्थाने तन्नित्यखप्रसङ्गः ।
अस्याथैः । भवतामात्मनित्यत्वादात्मगुणत्वे बुद्धरात्मन्यवस्थाने बुद्धनित्यखप्रसङ्गः स्यात् । कस्मात् ? बुद्धविनाशकारणानुपलब्धेनित्यस्यात्मनो गुणस्य नित्यत्वात् । गुणनाशकारण द्वधा आश्रयनाशो विरोधी गुणश्च, आत्मनस्त्वाश्रयस्य नित्यस्य नाशासम्भवः। विरोधी गुणश्च नोपलभ्यते इति।
तत्र सिद्धान्तसूत्रम्। अनित्यवग्रहाद, बुद्धेर्बुद्धान्तराद्विनाशः शब्दवत् । एफस्यां बुद्धौ खल्वात्मनो बुद्धापादानिकायां जातायां यदा पराबुद्धिरुतपदाते तदा पूर्वयुद्धेर्नाशः स्यादिति बुद्धान्तरोत्पत्तिः पूर्वबुद्धिनाशे हेतुः। इति सव्वपाणिनां प्रतिजनवेदप्रमिदं गृह्यते बुद्धिसन्तानः । बुद्धबुद्धान्तर विरोको गुण इत्यनुमीयते। तत्र दृष्टान्तमाह. शब्दवदिति। पूव्वशब्दस्य यथा शब्दान्तरोत्पत्तितो नाशः स्यादिति यथा शब्दसन्ताने शब्दः शब्दान्तरविरोधी गुण इति । - अत्राहुर्नास्तिकाः। भवता यत्किञ्चिद दृष्टश्च श्रतञ्च स्पृष्टश्च रसितञ्च घातञ्च त्येवमसङ्के प्रयेषु ज्ञानकारितेषु संस्कारेषु स्मृतिकारणेषु मध्ये समाने खल्वात्ममनसोः सन्निकर्षे स्मृतिहतौ वत्त माने कारणायोगपदं नास्तीति कारणयोगपदनाद युगपत् स्मृतयः स्युरिति । - तत्राहुः केचित्। ज्ञानसमवेतालप्रदेशसन्निकर्षान्मनसः स्मृत्युत्पत्तेने युगपदुत्पत्तिः। दर्शनस्पर्श नादिभिकतानां ज्ञान यस्मिन्नात्मनः प्रदेश
For Private and Personal Use Only