________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
चरक संहिता |
[ दीर्घञ्जीवितीयः
इति प्रवृत्तिनिवृत्तिरूपः प्रयत्नो मनसि जायते । ततोऽभीष्टे साधितेऽनिष्टान्निवृत्तौ प्रज्ञापराधादनिष्टे साधितेऽभीष्टान्निवृत्तौ सुखमनिष्टे दुःख मनसि भवतीत्यात्मप्रत्यय हेतूनां चैतन्यबुद्धीच्छाद्वेषप्रयत्न सुखदुःखानां मनसि सम्भवादेवं योऽह '
द्राक्षं सोऽहमेव स्पृशामीत्येव दर्शनस्पर्शनाभ्यामेकस्यैव मनसोऽर्थग्रहणादिसम्भवान्नात्मन एते चैतन्यादयः प्रत्यय हेतवस्ततश्चात्मा नास्तीत्याहुनास्तिकाः ।
तत्र समाधत्ते । ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् । अस्यार्थः । युष्माकं मते मनसो ज्ञातुर्ज्ञानसाधनस्य ज्ञानकरणस्य चक्षुरादेरुपपत्त ेः संज्ञाभेदमात्रम् । मनो जानातीति ज्ञातुर्मनसो ज्ञानसाधनञ्च चक्षुरादि । चक्षुषा पश्यति घ्राणेन जिघ्रतीत्येवं ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रं भवन्तो मन आहुर्वयमात्मानं ब्रूम इति नार्थे विवादः । यदि य एको मनसा मनुते चक्षुषा पश्यति स प्रत्याख्यायते तदात्मैवास्ति मनो नास्तीति प्रत्याख्यायेत ।
ननु रूपादिप्रत्यक्षं चक्षुरादिकरणं ज्ञातुरस्ति सव्र्व्वविषयं मतिसाधन' मनो ज्ञातुर्नास्तीत्येवं नियमे मन एव जानाति चक्षुषा पश्यतीत्येवं सुखमनुभवति दुःखञ्श्चति चेत् । तत्राह सिद्धान्तम् । नियमश्च निरनुमानः । ज्ञातुर्ज्ञानसाधनोपपत्त ेः करणं चक्षुरादिकमस्ति बुद्धयादिकरणं मनो नास्तीति नियमो निरनुमानः । कर्त्ता हि करण विना न किश्चित क शक्रोति, वक्ष्यते हि शारीरेऽस्मिंस्तन्त्रे । “करणानि मनो बुद्धिबुद्धिकम्म न्द्रियाणि च । कर्त्तुः संयोगजं कम्म वेदना बुद्धिरेव च । नैकः प्रवर्त्तते कर्त्तुं भूतात्मा नाश्न ते फलम् । संयोगाद्वत्तते सर्व्वं तमृते नास्ति किञ्चन ॥" तथा तत्रैव च वक्ष्यते । “न च कारणमात्मा स्यात् खादयः स्युरहेतुकाः । न चैषु सम्भवेज्ज्ञानं न च तैः स्यात् प्रयोजनम् ॥ मृद्दण्डचक्रश्च कृतं कुम्भकारादृते घटम् ॥” इति । युगपज्ज्ञ यानुपलब्धेश्च न मनसः। युगपजशे यानामनुपलब्धेर्मनसो न बुद्धिगुणः । अणु चैकञ्च मन एकदा नानेकेषु प्रवत्त ते तस्मान्नैककाला सव्वन्द्रियप्रवृत्तिरिति वक्ष्यते । यद्यपि महाननेकश्च सूक्ष्म एकदा सर्व्वेषु न प्रवर्त्तने समर्थस्तथापि यादिषु यथाशक्ति प्रवर्त्तनक्षम इति बोध्यं, मनस्तु न व्यादिष्वपि प्रवर्त्ततेऽणुखादेकखाच्च ।
अत्र नास्तिका आहुः । तदात्मगुणत्वेऽपि तुल्यम् । तस्या बुद्धेरात्मगुणत्वेऽपि तुल्यं युगपज्ज्ञ यानुपलब्धेर्न तस्यात्मनो गुणो बुद्धिः । मनो हि यथा सूक्ष्ममेकं नानेकेषु युगपत् प्रवर्त्तनक्षमं तथैवात्मा सूक्ष्म एक चानेकेष्विन्द्रियेषु नैककालं प्रवर्त्तितुं सम्भवतीति तुल्यम् ।
For Private and Personal Use Only