________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४५
म अध्यायः]
सूत्रस्थानम् । विषयं वा। एको हि ज्ञाता सर्वविषयः स्वानि ज्ञानानि प्रतिसन्धत्ते । अहममुमर्थ विज्ञास्याम्पमुमथ जानाम्यमुमर्थमज्ञासिषममुमर्थ जिज्ञासमानश्विरमर्थ ज्ञाला व्यवस्यामि । अज्ञासिपमिति तथा स्मृतिमपि त्रिकालां सुस्मूर्षाविशिष्टां च प्रतिसन्धत्त । संस्कारसन्तानमात्रे तु वस्तुनि संस्कारा उत्पदा उत्पदा तिरोभवन्ति। ततो नास्त्येवैकः संस्कारस्त्रिकाल ज्ञान स्मृतिश्च त्रिकालामनुभवेत् । न ह्यनुभव विना शानस्य स्मृतेश्च प्रतिसन्धानमुत्पदाते देहान्तरवत् । तस्मादनुमीयते अस्ति खल्वेकः सर्वविषयः कश्चिद यः प्रतिदेहं संज्ञाप्रबन्ध स्मृतिप्रबन्धश्च प्रतिसन्धत्ते इति। यस्य देहान्तरेषु देवदत्तादरात्मनो यज्ञदत्तादिदेहेषु वृत्ताभावान्न तत्प्रतिसन्धानं भवतीति सत्वशरीरसङ्घातव्यतिरिक्तोऽस्त्यात्मा न तु नास्त्यात्म ति। इत्येवं सातवादिनास्तिके निरस्ते पुनरिन्द्रियचैतन्यवादिनो नास्तिका आहुः । इन्द्रियार्थसन्निकर्पोत्पन्नं ज्ञानमुक्तं भवद्भिस्तत एव भवद्भिरेवोक्तं भवति इन्द्रियाणि चार्थाश्च चैतन्ये कारणं तस्मान्नास्त्यात्मा चेतन इन्द्रियार्थव्यतिरिक्त इति । तत्राह
नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात् । इन्द्रियाणामर्थानां वा न चैतन्यादिबुद्धिः। कस्मात् १ तद्विनाशेऽपि ज्ञानावस्थानात् । तयोरिन्द्रियार्थयाविनाशेऽपि ततो ज्ञातेऽर्थे ज्ञानस्य सद्भावात। तथा चेन्द्रियार्थयोः श्रोत्रश्रतयोः स्पर्शनस्पृष्टयोष्टिदृष्टयोरसनरसितयोर्घाणघ्रातयोरनन्तरविनाशे तदिन्द्रियजातायास्तदर्थबुद्धेवस्थानात। तत्तदर्थस्मरणात्। न ह्यनुभवितुरभावे स्मरणमुपपदाते। इन्द्रिय नित्यमनित्यञ्च, तत्र सूक्ष्मदेहस्थं नित्यं स्थूलदेहस्थमनित्यमित्यतः स्थूलदेहस्थेन्द्रियनाशे सूक्ष्मदेहस्थेन्द्रियेण स्मय्यते इति न वाच्यं सूक्ष्मदेहस्थेन्द्रियादेः स्वप्नावस्थायां ज्ञानकरणवात् । स्वप्नावस्थो हि तैजसो नामात्मा स चान्तःप्रशस्तस्याहङ्कारिकमिन्द्रियं स्वप्नगतभावग्रहणे करणं जागरितावस्थायां तस्य मानकरणखाभावा । अस्वेवं देवदत्तोऽहमिदं जानामीति प्रतीतः शरीरस्यैव चैतन्याच्छरीरस्य पञ्चभूतमयस्य गुणो बुद्धिरुत्पदाते इत्यतो नास्त्यात्मेति चाहु स्तिकास्तन्नति गौतमाक्षपादः । कस्मादित्यत आह सूत्रम्
शरीरदाहे पातकाभावात् । शरीरस्य शवरूपस्य दाहे पुरुषबधपापाभावदर्शनेन खल्वात्मविहीनजीवन्षुरुषस्य दाहेऽपि पातकाभावप्रसङ्गात नात्मव्यतिरिक्तः सत्त्वशरीरसङ्घात आत्मा नित्य इति।
१९
For Private and Personal Use Only