________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मध्याक
सूत्रस्थानम् । एवात्मनः सद्भावोऽस्तिवं सिद्धाति । यदाकमिन्द्रियं सर्वविषयं स्यात्तदात्मानमन्तरेण शानोत्पत्तिः शक्यत वक्तुम्। तस्मादस्त्याला सस्वभूतगुणेन्द्रियैवेतन्ये हेतुः सत्वशरीराभ्यां पर । सत्त्वशरीरसङ्घातव्यतिरिक्तात्मास्तित्वे कारणान्तरश्च। ___सव्यदृष्टस्येतरेण प्रत्यभिज्ञानान् । सत्त्वशरीरसङ्घातव्यतिरिक्त आत्मास्ति। कस्मात् १ सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् । पूर्वापरयोविज्ञानयोरेकविषये प्रतिसन्धानं प्रत्यभिज्ञान। तमेवार्थमिदानीमहं जानामि यमर्थमशासिषं स एवार्थोऽयमिति। तथाहि सव्येन चक्षुषा दृष्टस्यार्थस्य तदितरेण चक्षुषा दक्षिणेन प्रत्यभिदर्शनम् । यमेव सव्येन चक्षुषाद्राक्षं तमेवेदानी दक्षिणेन चक्षुषा पश्यामीति स एवार्थोऽयमिति योऽद्राक्षीत् स इदानीं पश्यतीति सव्यदक्षिणचक्षुर्व्यतिरिक्त एकः कश्चिदस्ति द्रष्ट ति स एवात्मा। ____ तत्राहुनास्तिकाः। इत्येवं प्रत्यभिज्ञानेऽपि तदिन्द्रियव्यतिरिक्त आत्मा चेतनः, कस्मात ? नैकस्मिन्नासास्थिव्यवहिते द्विखाभिमानात् । एकमेवेद चक्षुर्मध्ये नासास्थिव्यवहितं तस्यान्तौ द्वौ भागो दृश्यमानौ द्विवाभिमानं लोके प्रयोजयतः। दीर्घस्य कस्यचिद्वस्तुनो मध्ये व्यवहितमिव । तत्राह__ एकविनाशे द्वितीयाविनाशान कसम्। एकस्मिंश्चक्षुष्युपहते चोद्धते वा द्वितीयं चक्षुरवतिष्ठते विषयग्रहणलिङ्गमितरेण दर्शनात् । तस्मादकस्य व्यवधानानुपपत्तिरिति। .
तत्राहुर्नास्तिका.। अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः। चक्षुष एकलप्रतिषेधे एकविनाशे द्वितीयाविनाशादिति हेतुरहेतुः। कस्मात् ? अवयवनाशेऽप्यववव्युपसन्धः। वृक्षस्य हि शाखासु कासुचिच्छिन्नासु स एव वृक्ष इत्युपलभ्यते इति । तत्राह___ दृष्टान्तविरोधादप्रतिषेधः। चक्षुष एकखपतिषेधस्य प्रतिषेधो न भवति । कस्मात् १ दृष्टान्तविरोधात् । वृक्षस्य शाखानामवयवानां नाशेऽवयविवृक्षस्योपलब्धिदृष्टान्तस्तस्य विरोधोऽयम्। यदि चक्षु अवयवं स्यात् तदैकावयवनाशेऽवयविचक्षुष उपलब्धिः स्यात् । भवद्भिरुच्यते एकस्मिन् नासास्थिव्यवहिते द्विखाभिमानमिति तस्मादकस्य चक्षुषो व्यवधानानुपपत्तिः। अनुमीयते चायं देहादिसङ्घातव्यतिरिक्त आत्मा चेतन इति । वा सांख्यदर्शनपरिप्रहात् भवतीति भावः; सांख्यमते च मनःशब्देन बुद्धिरन्तःकरणञ्च गृह्यते ॥२८॥
For Private and Personal Use Only