________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
. [ दीर्घवित्तीयः
चरक संहिता |
प्रधानपुरुषोभयात्मकं तर्हि “चाव्यक्तात् पुरुषः परः” इति कठोपनिषदि मन्त्रे कः पुनः पुरुष इति उच्यते स परमः पुरुषः परमात्मा न क्षेत्रज्ञः पुरुष इति ज्ञापनार्थ सा काष्ठा सा परागतिरित्युक्तम् ।
ननु सत्त्वशरीरसंयोगाद्विशेषोपलब्धिरात्मनः, स विशेषो विकारोsarस्तवो वास्तवो वाऽस्तु तेन वो नश्च का हानिरिति चेन्न शारीरमानसव्याध्युपशमननिदानादुप्रपदेशमन्तरेणात्मस्थव्याध्युपशमननिदानादुपदेशी न कुत्राप्यायुव्वेदादिशास्त्र हि दृश्यते । शारीरमानसधातुवैषम्यप्रशमनेनैव सत्त्वशरीरसंयोगजस्यात्मस्थविशेषस्य प्रशमनात् । वक्ष्यते चात्र " मानसो ज्ञानविज्ञान वैर्यस्मृतिसमाधिभि” रिति ।
नन्वात्मा तदैव निर्विकार स्याद यदि सच्वशरीरसङ्घातात् परः स्यात् न च सत्वशरीरसङ्गाताद्वातिरिक्त आत्मास्ति सच्चशरीरसङ्गात एवात्मेत्याहु। नेत्याहाक्षपादगौतमो यथा न्यायसूत्रम् । “दर्शन स्पर्शनाभ्यामेकार्थग्रहणात् । ( ३|१|१ ) । अस्यार्थः । दर्शनेन्द्रियस्पर्शनेन्द्रियाभ्यामेकार्थस्य रूपस्पशज्ञानेन ग्रहणाज्ज्ञानादात्मा सच्वशरीराभ्यां परः न तु दर्श नेन्द्रियस्य रूपक्षानेन घटाद्यर्थज्ञानं स्पश नेन्द्रियस्य शीतलादिस्पर्श ज्ञानेन घटाद्यर्थज्ञानं यथाऽहमिमं घट पश्याम्यहमेव स्पृशामीति सच्वशरीरसङ्घातात् परस्यात्मनो घटाये कार्थज्ञानं भवतीति सुत्त्वशरीराभ्यां पर आत्माऽस्ति ।
तत्राहुर्नास्तिकाः । न विषयव्यवस्थानात् । अस्यार्थः 1 दश नस्पशनाभ्यामेकार्थग्रहणं न विषयव्यवस्थानात् दर्शनेन्द्रियस्य रूपं विषयः स्पर्श नेन्द्रियस्य स्पर्शो हिमादिर्विषय इति विषयभेदव्यवस्थानात् । दर्शनस्पर्शनेन्द्रिययोरेव रूपस्पर्शज्ञानं तस्मात्तयोर्थ तन्ये कारणखं न ह्यन्तरेण चैतन्यं बुद्धिरुत्पद्यते इति । सच्वशरीरसङ्घातात् पर आत्मा नास्ति, यः सवादियोगे चतन्ये कारणमुच्यते । इति चैतन्ये कारणमिन्द्रियं सत्वशरीरसङ्घात आत्मा वेति समाधत्ते ।
तद्व्यवस्थानादेवात्मसद्भावादप्रतिषेधः । अस्यार्थः । सत्वशरीराभ्यां परस्यात्मनोऽस्तित्वस्याप्रतिषेधः । कस्मात् ? तद् व्यवस्थानादेवात्मसद्भावात् । तस्य दर्शनविषयस्य रूपस्य स्पर्शनविषयस्य स्पर्शस्य च घ्राणविषयो गन्धो रसनविषयो रसः श्रवणविषयः शब्द इत्येवं विषयस्य व्यवस्थात साक्षी सन् जगतः क्रियाः सर्व्वाः पश्यन् न रागद्वेषादिना युज्यते, तथात्मापि सुखदुःखापलभमानोऽपि न रागादिना युज्यते । इयमानरागादिविकारस्तु मनसि प्राकृते बुद्धी
For Private and Personal Use Only