________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३६
[ दीर्घओवितीय
चरक संहिता | पूर्वकृतकफलयोगादेष प्रतिबुध्यमानः पुनर्महतोऽभिव्यज्यमानानि अहङ्कारादीनि गृहीला स एव पुरुषः सन प्रतिबुध्यते । प्रतिबुद्धचायं यदा मनसि क्लान्ते विषयेभ्यो निवर्त्तमानानीन्द्रियाणि लीयन्ते तदा स्वपिति, स्वपंचायमस्मिन् शरीरे सूक्ष्मशरीरेणोपाहितः स्वमान् पश्यन् प्रविविक्तभोगान भुञ्जानः सुखदुःखभुग्भवति । स्वमस्थानोऽयं पञ्चमहाभूत दशेन्द्रियमनोबुद्धाहङ्कारप्रज्ञानमयशरीरस्तैरेव मुखैः सुखदुःखहेतुभोगोपभोगेन सुख दुःखं तस्मिञ्छरीरे धातुसाम्यवैषम्यजमनुभवतीति स सूक्ष्मशरीरी प्रत्यगात्ला तैजसो नामान्तःप्रज्ञः सुखदुःखगुणवान् अव्यक्तस्यात्मनो लिङ्ग सुखदुःखमिति, सूक्ष्मशरीरे मनः शरीरञ्च सुखदुःखाश्रय इति गौतमकणादादिभिः सह विरोधः ।
एवं स यदा जागर्त्ति तदा वहिःप्रशस्तैरेव स्थूलमुखैरिमान स्थूलान् भोगान् भुञ्जानः सुखदुःखगुणवान् वैश्वानर उच्यते । तत्राव्यक्तस्यात्मनो लिङ्ग' सुखदुःख' प्रत्यगात्मन्यस्मिन् देहे मनसि वर्त्तते इति प्रत्यगात्मनो गुणः सुखदुःखमिति गौतमकणादादिभिः सहाविरोधः । स्थूलसूक्ष्मशरीरसत्वात्मसमुदायो हि प्रत्यगात्मा द्विविधो भूतात्मा वैश्वानरस्तैजसश्चति । प्रज्ञोपाहितस्त्वव्यक्ताख्यः क्षेत्र आत्मा प्रज्ञया सत्त्वोद्रिक्तया सुखवांस्ततो निर्श्विकारो यदा रजस्तम - उद्रेके सत्यहमिति मन्यते तदा तदहङ्कारेणाविद्यया आकाशादीन् सृष्ट्वा तैजसो भूताला भवति स्थूलभूतयोगात वैश्वानरः । दुःखाभावात्त् सुतरामव्यक्ते प्राज्ञ त्वात्मनि न व्याधिनित्यसुखखात्त नित्यारोग्यं खलु वर्त्तते इति ।
ननु गौतमोक्तं बुद्धीच्छाद्वे पसुखदुःखप्रयत्नानामात्मलिङ्गखमिव कतिधापुरुषीयेऽपि स्वयमपि “ इच्छा द्वेषः सुखं दुःखं प्रयत्नश्च तना धृतिः । बुद्धिः स्मृतिरहङ्कारो लिङ्गानि परमात्मनः ॥” इति वक्ष्यते; ते चेत् क्षेत्रज्ञ आत्मनि न वर्त्तन्ते निरुपादानाः कथं प्रत्यगात्मनीच्छाद्वेषादयो गुणा निर्व्वर्त्तन्ते नित्यबुद्धादिमत्त्वान्निगुणत्वं वा कथमात्मन इति नाशङ्कयम् । क्षेत्रज्ञस्य चे तनादयोअनभिव्यक्तास्त्रिवृत्तिवृद भूततेजोऽवन्नात्मका न सत्त्वादिगुणात्मकास्तस्मान्न लौकिकगुणाः समसत्त्वादियोगे त्वव्यक्तावस्थायां चैतन्यादयोऽव्यक्ता महता योगे विद्यावद्धि, अहङ्कारयोगे चाविद्याबुद्धिव्यज्यते । राशिपुरुषभावे महद
Acharya Shri Kailassagarsuri Gyanmandir
इति वचनं निर्व्यथे मनसीति स्यात्, तथा शरीरादावप्यात्मशब्दो वत्तते, तद्वयवच्छेदार्थे पर इति पदम् उक्तम् अन्यत्र "ब्रह्म ेन्द्रवाय्वग्निमनोष्टतीनां धर्मस्य कीर्तेर्यशसः श्रियश्च । शरीरस्य शरीरिणश्च स्थान द्वादशस्विङ्गित आत्मशब्दः ॥" ननु यद्यात्मा निर्विकारस्तत् किं
तथा
For Private and Personal Use Only