________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ]
सूत्रस्थानम् । तु सत्वगुणबहुलत्रिगुणात्मकमात्मा तु न तथाभूतः परन्तु समत्रिगुणलक्षणश्चित्सम्प्रसाद क्षेत्रज्ञस्तस्मानिर्विकार इत्याह कश्चित् तन्न, शरीरभिन्नखान्मनसो मनोभिन्नखाच्छरीरस्य निर्विकारखापत्तौ तदुभयस्मात् पर इत्युक्तितोऽपि सुषुप्तौ तथाविवखादात्मन आनन्दमात्रभोगिखात्। अन्ये तु मनःशरीराभ्यां हि यस्मात् तु भिन्नक्रमे परः श्रेष्ठ आत्मा तस्मान्निविकारः। निविकारस्तु यस्मात्तस्मान्मनःशरीराभ्यां श्रेष्ठ आत्मेति व्याचक्षते । तन्न साध्यसमखादहेतुखात्। वस्तुतस्तु निरुक्तं धातुवैषम्यं दुःखश्च ति द्वयं विकारः आत्मेंत्यस्य पर इति विशेषणान्न खल्वात्मा केवलश्च तनाचातुर्य्य पुनरस्मिन् पुरुषे नान्तःप्रज्ञन वहिःप्रज्ञ नोभयतःप्रज्ञन प्रज्ञ नाप्रज्ञन प्रज्ञानवनमव्यपदेश्यमव्यवहाय्यमचिन्त्यमलक्षणमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमतिं चतुर्थ मन्यन्ते। एष आत्मा स विज्ञयः सोऽव्यक्तः सोऽध्यक्षः सोऽक्षरः सोऽनादिः स विश्वं सोऽव्ययः स परमात्मा द्रष्टारमुपद्रष्टा भोक्तारमनुभोक्ता न द्रष्टा न भोक्ता, तर्हि किं सः ? अव्यक्तमात्मा क्षत्रज्ञ इत्यादिपर्यायेण शारीरे वक्ष्यमाणः समसत्वरजस्तमोऽनुपविष्टस्तत्तिगुणलक्षणः पुरुष एतस्मिन् सत्त्वात्मशरीरात्मकराशिपुरुष भवत्यात्मा। स यत्राधिष्ठाने यस्यामवस्थायां च सम्पतिष्ठितो द्रष्टा क्रियाणां भोक्ता भोगैः सुखदुःखानां तदधिष्ठानस्तदवस्थ एवात्मा आत्मविद्भिरुच्यते। स एकोऽधिष्ठानायोगपद्यात् । त्रीणि खल्वस्याधिष्ठानानि हृदयं कण्ठो नेत्रश्च ति। तत्र हृदयं नित्याधिष्ठानं, तत्र तिष्ठन् विभुखाच्छे एमधिष्ठानमधितिष्ठतीति ; तिस्रश्वावस्थाः सुषुप्तिः स्वप्नो जागरितञ्चति । सुषुप्तावस्थाने प्रवर्तमाने सर्वाणीन्द्रियाणि भूतानि च सर्वाणि सर्वे चार्था मनसि लीयन्ते मनचाहङ्कारेऽहकारो महत्तले प्रज्ञाने तदा प्रज्ञानं घनीभवति प्रशोपाहितश्चायं प्रशानघनः सुष्वपिति, परमात्मनि शिवे सम्प्रतितिष्ठते परमो ह्यात्मा रसोऽमृतोऽमृतरसाश्रयखात् । रसं ह्य वायमानन्दयन्तमेनं लब्ध्वा शुद्धसत्वमयेन प्रशानेन महत्तत्वेन चेतसा सुखेनानन्दं रसं भुञ्जान आनन्दीभवतीति । चेतोमुख आनन्दभुगानन्दमयः प्राज्ञ एष सुषुप्तिस्थानः । एप सवेश्वर एषोऽन्तम्यिन्तर्यामिपरमात्माधिष्ठानात् । एष सर्वज्ञ एप योनिः सर्वस्य प्रभवश्वप एषोऽप्यव्ययः। पर इति सूक्ष्मः श्रेष्ठो वा, तेन सत्त्वशरीरात्ममेलकरूपो य आत्मशब्देनोच्यते तं व्यावतयति, यदुक्तं "संयोगिपुरुषस्येष्ठो विशेषो वेदनाकृतः” इति। संयोगेऽपि च आत्मादीनां मनस्येव वेदना भवति, सा तु मनःसंयुक्त आत्मन्यपि सम्बद्धत्युच्यते, तेन “निर्वधथे चान्तरात्मनि"
For Private and Personal Use Only