________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः सूत्रस्थानम् ।
१३७ हङ्काराभ्यां विद्याविद्याबुद्धनादयो जायन्ते इति न निरुपादाना बुनादयः । राशिपुरुषभावेण जायमानेऽस्मिन् जायन्ते ये क्रियागुणास्ते केवटेऽस्मिन् न वर्तन्ते इति निष्क्रियो निगुण आलोच्यते। एवश्वेन्महदहङ्काराभ्यां जायन्ते तर्हि चात्मा नास्तीत्येवं मन्यामह इत्यत उच्यते
सत्त्वेत्यादि।-सत्त्वं मनः। भूतानि खादीनि पञ्च, गुणास्तेषां शब्दादयः पश्च, इन्द्रियाणि पश्च बुद्धयाः श्रोत्रादीनि । तैः सह विशिष्टश्च तन्ये कारणं राशिपुरुषे चैतन्यं जनयति । चैतन्यन्तु चेतनस्य भावश्चेतनस्तु चेतनावान् चेतना तु स्वयं प्रकाशरूपा परप्रकाशिनी सत्त्वादियोगेन पुनरात्मना तल्लक्षणेन जनितगुणविशेषरूपा, लौकिकी चेतना बुद्धिविशेष आत्मलिङ्गखेनोक्ता। सा चात्र यथा बुद्धग्रा चक्षुषा पश्यन्नपि भावान् जातमात्रबालक इव न विजानीते किमिदमिति, शब्द शृण्वन्नपि न बुध्यते किमिदमिति, स्पृश्यं स्पृशनपि न वेत्ति किमिदमिति, दुग्धादीन पिवनपि न वेद किमिदमिति, जिघनपि पनादीनि नावगच्छति किमिदमिति । यया च बुद्धिकर्मेन्द्रियाणि स्वार्थेषु केवलं प्रयुक्त न तु तत्तदर्थविज्ञानं निष्पादयितुमल भवति स्पन्दते क्रीड़ते च यथा बालक इत्येवं सति पुरुषे भवति। चेतनाधातुः खलु परप्रकाशकः प्रकाशकलक्षणः प्रकाशवानेव। यत्र हि यत्कारणं यन वर्तते तत्र तत्कार्यमुत्पादयितु स कथमल भवति। यदि हि चेतनाधातुने चेतति कथमितराणि तर्हि चेतयेत यथा यदि प्रकाशो न स्वयं प्रकाशते कथमितराणि प्रकाशयेत् तद्वदिति चेतना स्वरूपतचे तनरूपैव न सत्त्वादियोगजा चेतनेत्यत उक्तं-चेतनावान, अतश्चात्मेति । तथा शः साक्षीत्युच्यते इति, न तु लौकिकगुणरूपचैतन्याख्यचेतनावान् ने वा लौकिकगुणाख्यज्ञानवान् इत्यभिप्रायः । तथा हि चेतनाधातुः परप्रकाशकः स्वयंप्रकाशरूपः सत्त्वेन यदा युज्यते तदा सत्त्व क्रिययोपचय्येमाणः सक्रियः सन् मनसि चैतन्यं जनयति इति सत्त्वस्थचैतन्यगुणेनोपचय्यमाणश्चेतनागुणवानयं जागरितस्थान इत्युच्यते, इत्येवं यावत् सत्त्वमात्मा शरीरश्चति वचने प्रपञ्च न व्याख्यातं तत्सवमत्रानुसतव्यम्। तस्मात् प्राणापानादिकार्यवदिच्छाद्वेषादयो गुणा अप्यात्मलिङ्गत्वेनोक्ता न खात्माश्रितगुणत्वेन। एवमात्मा सत्त्वेन युक्तो यदा यद गुणं शब्दादिकं जिघृक्षन यच्छवणादिवहिरिन्द्रियेण युज्यते तदा तदर्थेषु तदिन्द्रियस्य चैतन्यं जनयति ; ज्ञानरूपो विकारोऽस्ति वा नास्तीत्याह सत्त्व त्यादि।-सत्त्व मनः, भूतगुणाः शब्दादयः, इन्द्रियाणि च चक्षुरादीनि, एतैः करणभूतैश्चैतन्ये कारणं भवत्यात्मा, चैतन्यञ्चारमनि जायते
lilil il
For Private and Personal Use Only