________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
चरक संहिता |
[ दोर्घञ्जीवितीयः
कतिधापुरुषीये गुण एव भावानां लिङ्ग भवति न दन्यदिति न यौक्तिक प्राणापानादीनामपि तत्रैवात्मलिङ्गत्वेनोक्तत्वात् । अथात्मनो लिङ्ग बुद्धिरिच्छाद्वेषसुखदुःखप्रयत्नाश्च न च शारीरगुणा न वा मनसो गुणास्ते भवन्ति । उक्तं हि गौतमेन । “नेन्द्रियाथयोस्तद्विनाशेऽपि ज्ञानावस्थानात् । " इति । न बुद्धिरिन्द्रियाणां नवार्थानां गुणस्तयोविनाशेऽपि तच्छवणादिज्ञानस्य स्मरणरूपत्वेनावस्थानात् । न ह्यनुभावकस्यासच्चे स्मरणमप्युपपद्यते । युगपज्ज्ञ ेयानुपलब्धेश्च न मनस इति मनसो निखिलबुद्धिमत्त्वे युगपदेकदैवानेकशेयानामनुपलब्धेर्न बुद्धिर्मनसो गुणः । नन्वेवं चेत्तदात्मगुणेऽपि तुल्यमात्मनो युगपत् सर्व्वेन्द्रियासंयोगात् युगपदनेकशे यानुपलब्धिः । कथमिति चेन्न सन्निकर्षाभावात्तदनुत्पत्तिः । आत्मनो युगपदने केन्द्रियार्थसन्निकर्षाभावाद, युगपज्ज्ञानानुत्पत्तेः । ज्ञानोत्पत्तौ कारणोपदेशाद बुद्धिरात्मगुण इति चेन्न आत्मन इव युगपन्मनसोऽपि सव्वन्द्रियसन्निकर्षाभावाद, युगपज्ज्ञानानुत्पत्तरिति । किञ्च विनाशकारणानुपलब्धेश्वात्मावस्थाने तन्नित्यत्वप्रसङ्गः । आत्मा हि नित्यस्त्रबुद्धेवस्थाने तदाश्रयस्यात्मनो विनाशाभावेन बुद्धेर्विनाशकारणान्तरानुपलब्धेश्व नित्यखप्रसङ्ग इति चेन्नात्मनो बुद्धित एवात्ममनोयोगेनेन्द्रियार्थसन्निकर्षादुत्पन्नस्यैन्द्रियकस्य बुद्धान्तरस्य नाशात् । यथा शब्दः पूर्वस्य शब्दस्यानन्तरोत्पन्नस्य शब्दान्तरस्य नाश इति । उत्तरकालबुद्धत्पत्तिः पूर्व्वबुद्धिनाशे हेतुरुपलभ्यते । अथैवमस्त्वनित्यत्वं मनोगुणत्वेऽपि तथात्वमस्ति बुद्धेर्युगपदुत्पत्तिस्त्वात्मगुणत्वेऽपि न परिहृता भवत्येवश्च तत्राहैकदेशी । ज्ञानसमवेतात्मप्रदेशसन्निकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिरिति ज्ञान' संस्कारकरण यन् तत् तु समवेतं यदात्मप्रदेशे तत्र प्रदेशे मनसः सन्निकर्षात् स्मृतिरुत्पद्यते कथं बुद्धिस्मृत्योर्युगपदुत्पत्तिः सम्भवतीति न युगपदुत्पत्तिरेतावतापि बुद्धेरात्मगुणत्व यौगपद्यमेकत्वादात्मनोऽनेकेषु युगपत्प्रवृत्तप्रभावान्न यथा सम्भवति तथा मनोगुणत्वेऽपीति तस्मादात्मगुणत्वस्थापनार्थ बुद्धेरपरयुक्तिमुवाच गौतमः । - “ शस्येच्छाद्वे पनिमित्तत्वादारम्भनिवृत्तयोः ।” इति । ज्ञस्य ज्ञानवत एवात्मन इच्छाद्वे षहेतुकत्वादारम्भनिवृत्तयोः प्रवृत्तिनिवृत्योर्न मनसि बुद्धिः । इच्छाद्वेषौ चात्मगुणावन्यदीयज्ञानजनितौ किमात्मनि वर्त्तित युज्यते इति आत्मन एव बुद्धिरात्मन एव स्वबुद्धिजन्याविच्छाद्वेषौ ताभ्याञ्च तु" । तथेति शरीरं मनश्च तत्र शारीररोगाभावरूपस्यारोग्यस्य शरीरमाश्रयः मानसरोगाभावस्य तु मनः । योगस्तु समः कालबुद्धीन्द्रियार्थानां सम्यग्योगरूपस्तथा सुखानामारोग्याणां
For Private and Personal Use Only