________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ]
सूत्रस्थानम् ।
१३१
धृतिसमयोगः । स्मत्तव्यस्य तत्त्वतो ज्ञानाय स्मर्त्तव्ये योगः स्मृतिसमयोगइति बुद्धिसमयोगः । तस्माद्वाङ्मनः शरीराणां सम्यक् प्रवृत्तिभवति । यद्वक्तव्यत्वेनोचित तद्वदति वागिति वाकसमयोगः । यच्चिन्त्यत्वेनोचितं तच्चिन्तते मन इति मनःसमयोगः । यच्चेष्टितव्यतयोचितं तच्छरीरं चेष्टते इति शरीरसमयोग इति । एवं श्रोत्र शत्तयनुरूपमर्थं शब्द यच्कृणोति स शब्दसमयोगः । स्पशन तथाभूतं स्पर्शं यत् स्पृशति स स्पर्शसमयोगः । चक्षुश्च यत् तथारूप पश्यति तद्र समयोगः । रसनं यत् तादृशं रसमास्वदते स रससमयोगः । गन्धं च यततादृशं घ्राणं जिघ्रति स घ्राणसमयोगः । इति मनोवाक्कायसम्भूतं सुखं तेभ्यो योगेभ्यो जायते इति । कतिधा पुरुषीयेऽपि वक्ष्यते । - "वेदनानामसात्म्यानामित्येते हेतवः स्मृताः । सुखहेतुर्मतस्त्वेकः समयोगः सुदुर्लभः ॥ नेन्द्रियाणि न चैवार्थाः सुखदुःखस्य हेतवः । हेतुस्तु सुखदुःखानां योगो दृष्टश्चतुर्व्विधः ॥ सन्तीन्द्रियाणि सन्त्यर्था योगो न च न चास्ति रुक् । न सुखं कारणं तस्माद्योग एव चतुर्व्विधः ॥” इति ।
अथायं भावः प्रतिसन्धेयः । यस्मान्मिथप्रायोगायोगातियोगयुक्तकाल - बुद्धीन्द्रियार्थकर्मणां मिथायोगादियुक्तबुद्धिहेतुकखान्मिथायोगादियुक्तबुद्धिहेतुकं दुःखं तस्माच्छरीरं सत्त्वसंशञ्च दुःखाश्रयः दुःखहेतुमिथवादियोगत्रययुक्तबुद्धप्राश्रयत्वात् । तथा समयोगयुक्तबुद्धिहेतुक यस्मात सुखं तस्माच्छरीर सत्त्वसंशञ्च सुखाश्रयः, समयोगयुक्त बुद्धप्राश्रयत्वात् । यथा घटः कपालमालादीयगुणवान् तत्तद् गुणहतुकपालमात्राद्याश्रयत्वात् । यथा वा घटो मृद वालुकादीयगुणहेतुगुरुत्वादिगुणवान् गुरुत्वादिगुण हेतु गुरुत्वादिगुणाश्रयमृद बालकाद्याश्रयत्वादिति । नन्वेवं तदैवोपपद्यते यदि शरीरमनसोगुणो बुद्धिर्भवति । न च बुद्धिः शरीरगुणो नापि मनोगुणः । कतिधापुरुषीये ह्यात्मलिङ्गत्वेन वक्ष्यमाणत्वात् । तद्यथा प्राणापानावित्यारभ्य – “ इच्छा द्वेषः सुख दुःख प्रयत्नश्च तना धृतिः । बुद्धिः स्मृतिरहङ्कारो लिङ्गानि परमात्मनः ॥” इति । तथा गौतमेनापि " इच्छाद्वेषप्रयत्न सुखदुःखज्ञानान्यात्मनो लिङ्गमिति ।” उक्तम् । कणादेनापि चोक्तम् | "प्राणापाननिमेषोन्मेष जीवनमनोगतीन्द्रियान्तरविकारा बुद्धिः सुखदुःखेच्छाद्देषप्रयत्नाश्वात्मनो लिङ्गानि । प्रवृत्तिनिवृत्ती प्रत्यगात्मनि दृष्टे परत्र लिङ्गमिति चेत् सत्यं मनसोऽपि लिङ्गत्वेन ज्ञानस्य भावाभावयोर्वक्ष्यमाणत्वेन शारीरा एव, कामादयस्तु मानसाः, उन्मादादयश्च द्वयाश्रयाः । आरोग्यस्याश्रयं हेतुञ्चाह, तथा सुखानामित्यादि । सुखानामित्यारोग्याणाम्, वचनं हि "सुखसंज्ञकमारोग्यं विकारो दुःखमेव
For Private and Personal Use Only