________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ]
सूत्रस्थानम् ।
1
१२७ मृद्वतितीक्ष्णानां गन्धानामुपसेवनम् । असेवनं सर्व्वशश्च घ्राणेन्द्रियविनाशनम् ।। पूतिभूतविपद्विष्टा गन्धा ये चाप्यनार्त्तवाः । तैर्गन्धर्घाणसंयोगो मिथ्यायोगः स उच्यते ॥ इत्यसात्म्यार्थसंयोगस्त्रिविधो दोषकोपणः । असात्म्यमिति तद्विद्याद यन्न याति सहात्मताम् ||" इत्येव मिथ्यायोगायोगातियोगात्मकत्रिविधविकथितः परिणामः प्रज्ञापराधोऽसात्म्येन्द्रियार्थसंयोगश्च ति त्रिविधो द्वयाश्रयाणां वक्ष्यमाणं शरीर सत्वसंज्ञञ्च ेति द्वयमाश्रयो येषां तेषां व्याधीनां पूर्वोत्तर निवृत्तिस्वभावानां धातुवैषम्य दुःखानां परस्परं व्यतिहाय्य धातुसाम्यसुखानां हेतुसंग्रहः कालमकर्षापकर्षाभ्यामुत्पत्तिहेतू नाम संख्येयवेऽपि त्रिविधकल्पनया संङ्गपः । कालस्यास लक्षणस्य तद्देशपरिहारमन्तरेणा परिहाय्यत्वादादावुपादानम्। बुद्धेस्तु कालायोगादिषु तथेन्द्रियार्थायोगादिषु हेतुत्वेन द्वयोमध्ये उपादानम् वक्ष्यते हि "प्रज्ञापराधाद्वाहितानर्थान् पञ्च निषेवते" इति जनपदोदध्वंसनीये च - “तयोर्योनिः प्रज्ञापराधः एव इति । अत्र कश्चिर् प्रत्यासन्नहेतुत्वादसात्म्येन्द्रियार्थसंयोगस्य पृथगुपादानमित्याह तन्न मनोरमं ; शस्त्राभिघातादेरपि तथावित्यासन्नयेतुत्वेन पृथगुपदेशापतेः । एषां खलु व्याध्युत्पत्तिहेतूनां चयादिकरत्वे सन्निकृष्टहेतुत्वं विशिष्टव्याधिजनने कालप्रकर्षसहायत एव हेतुत्वं बोध्यम् । तेनात्र कालकसंप्राप्तिरूपोऽपरो योऽधिको हेतुः कतिधापुरुषीये वक्ष्यते तदनुक्तितोऽत्र न न्यनत्वं स्वलक्षणसमविषमयोगेनापि कालमकस्येव सर्व्वेषामभिव्यक्तो हेतुत्वात् एवं कम्पेणापि कालप्रकर्षतः समागमे हेतुखादिति ।
;
"
इत्थञ्च बीजाङ्करन्यायेन पूर्वजन्मनि कर्म्मवशात् धीष्टतिस्मृतिविभ्रष्टः सनशुभं यत् कर्म कृतवांस्तदशुभकजसंस्कारविशेषरूपः कम्र्म्माख्योऽधम्मस्तत्सम्प्राप्तो कालमकर्षात् तदधर्म्मागमे पुनरिह जन्मन्यपि धीधृतिस्मृतिभ्रशो भवति, ततश्चासात्म्येन्द्रियसंयोगश्च भवति । जनपदमज्ञापराधात्तु कालश्च विषमलक्षणः स्यादित्येव सर्व्वं प्रज्ञापराधेऽन्तभूतम् । तेन प्रज्ञापराधः कालकर्मसम्प्राप्तिश्चेति द्विविधो हेतुसंग्रहो युक्तोऽप्याचार्याणां शिष्यव्यवसायार्थ' नानाख्यापनाय नानाप्रकारेणोपदेशो युज्यते । अत्र कालस्य दुष्परि
एव, कालस्वभावजा अपि सहजा एव; या त्वत्र प्रतिक्रिया कालस्वभावानामनागतानां भाविधात्वनुगुणद्रव्यसेवार्थरूपा तथा स्वाभाविकानाञ्च क्षुत्पिपासाजरादीनां कालभोजन रसायनादिरूपा, तस्या अकरणे सति कालस्वभावजस्य रोगस्य प्रादुर्भावः प्रज्ञापराधजन्य एव, उचिते हि काले portरणं प्रज्ञापराध एव । उक्त द्वि कतिधापुरुषीयेऽपि प्रज्ञापराधसंग्रह "कर्मकालाति
For Private and Personal Use Only