________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
चरक-संहिता। [ दीर्घञ्जीवितीयः हाय्यखादसात्म्येन्द्रियार्थसंयोगस्य शारीराङ्गेषु बुद्धीन्द्रियाणां तदिन्द्रियजव्याध्युपघातेऽङ्गान्तरस्थव्याध्यपेक्षयाऽतिवैकल्यं पुंसां स्यादिति ख्यापनार्थ पृथगुपादानम् । कतियापुरुषीये तु कालस्य विषमशीतोष्णवर्षणान्यतमस्य स्पर्शनेन्द्रियग्राह्यखादसात्म्यार्थागमेऽन्तर्भावः कृतः। कालकर्मसम्पाप्तः सर्चत्रैव हेतुखादभिव्यञ्जकत्वेऽपि हेतुत्वेनोपादानं कृतम् । अत एव हेतुर्द्वि विध उत्पादकोऽभिव्यञ्जकश्च। चतुर्विधश्च सन्निकृष्टविप्रकृष्टप्राधानिकव्यभिचारिभेदात् । सन्निकृष्टो यथा-“नक्तंदिन भुक्तांशा वातादिवैषम्यहेतवः ; ते पुनने चयादिकमपेक्षन्ते।” इति समलक्षणकालस्यापि सम्प्राप्त फ्ध्युत्पत्ती हेतुखेऽपि स्वाभाविकत्वेन तद्दोषवैषम्यस्य नातिबाधकत्वेनात्र व्याधिशब्दन स्वभावव्याध्यतिरिक्तव्याधिर्वाच्य इति। पूर्वाह्नादिद्धिस्वभावकफादिमयशरीरपरिग्रहे प्रज्ञापरावस्यैव हेतुख वा। विप्रकृष्टो यथा-पौषमाघरूपे हमन्ते सश्चितः कफः फाल्गुनच त्ररूपे वसन्ते तज्जान व्याधीन् करोति । प्राधानिको यथा-विषादि सद्यः प्राणहारि। व्यभिचारी तु यो दुबैलखाद व्याधिकरणासमर्थोऽहितस्तस्य व्याध्युत्पत्ती व्यभिचारिहेतुख यथा व्यायामजनितबलवदनौ बलवति पुरुष संयोगविरुद्धाशनं न व्याधिकारणमिति । यस्तु दोषरोगोभयहेतुभेदेन त्रिवियो हेतुः, मधुररसादयस्त्रयस्त्रयो दोषहेतवः पाण्डुरोगादिहेतुमद्भक्षणादिः, हस्त्यश्वादियानारोहणादिरुभयहेतुरिति वदति ; तत् तु न मनोरम-विकारो धातुवैषम्यमिति हि वक्ष्यते ततो दोषवैषम्यस्यापि व्याधित्वात्। अथात्र मिथ्या न चातीति त्रयाणां कालबुद्धीन्द्रियार्थयोगे चान्वयात् विपरीतहीनातिशयशीतोष्णवर्षलक्षणस्य कालस्य योगात् सम्यक शीतादिलक्षणस्यापि कालस्य निरन्तरप्रावरणाग्नितापादिनाऽन्यथायोगेऽपि कालमिथ्यायोगः। तथा तत्कालस्याल्यो योगः कालायोगः, तथा प्रावरणाद्यभावेन तत्कालस्य सततयोगः कालातियोगः। एवं बुद्धरपि सम्यक चिन्त्येऽन्यथासमप्रवृत्तिमनोमिथ्यायोगः । सर्वशोऽप्रत्तिर्मनसोऽयोगः । सततप्रत्तिर्मनोऽतियोगः। एवं सम्यग्रवक्तव्येऽन्यथा वाक्प्रवृत्तिर्वामिथ्यायोगः । सव्वशोऽप्रत्तिर्वागयोगः। सततप्रत्तिर्वागतियोगः। एवं सम्यक् शक्यशरीरस्यान्यथाप्रत्तिः शरीरमिथायोगः। सर्वशोऽप्रत्तिः शरीरायोगः । पातश्च मिथ्यारम्भश्च कर्मणाम्” इति। अन्ये तु मिथ्यायोगादिशून्यकालविद्यमानत्वेन कालएवावरोध एषां विकाराणामिति कतिधापुरुषीये वक्ष्यमाणग्रन्थस्य यथाश्रुतार्थपरिग्रहाद्वर्णयन्ति । न चेति चकारात् हीनयोगं गृह्णाति, वक्ष्यति हि "मिथ्यातिहीनलिङ्गेभ्यो यो व्याधिरूपजायते"
For Private and Personal Use Only