________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
चरक-संहिता। (दीर्घजीवितीयः प्रकृतिरुच्यते स्वभावो यः, स पुनराहारौषधद्रव्याणां स्वाभाविको गुळदि. गुणयोगः। तद्यथा-माषमुद्गयोः शूकरैणयोः। करणं पुनः स्वाभाविकानां द्रव्याणामभिसंस्कारः। संस्कारो हि गुणाधानमुच्यते। ते गुणाश्च तोयाग्निसन्निकर्षशौचमन्थनदेशकालवशेन भावनादिभिः कालप्रकर्षभाजनादिभिश्च आधीयन्ते। संयोगस्तु द्वयोर्बहूनां वा द्रव्याणां संहतीभावः, स विशषमारभत यं नकैकशो द्रव्याण्यारभन्ते। तद्यथा--मधुसपिषोमधुमत्स्य पयसां संयोगः । देशः पुनः स्थान, द्रव्याणामुत्पत्तिप्रचारौ देशसात्मप्रश्चाचष्टे । कालो हि नित्यगवावस्थिकश्च। तत्रावस्थिको विकारमपेक्षते नित्यगस्तु ऋतुसात्म्यापेक्षः। उपयोगसंस्थातूपयोगनियमः। स जीर्णलक्षणापेक्षः। उपयोक्ता पुनर्यस्तमाहारमुपयुङ्क्ते यदायत्तमोकसात्म्यमित्याहारविधिविशेषायतनानि सप्त । अष्टमस्तु राशिः । एतान्यष्ट रसविमाने स्वयं वक्ष्यमाणानि विस्तरेण व्याख्यास्यामः।
तथा तीक्ष्णोग्राभिष्यन्दिगन्धानामतिमात्र घ्राणमतियोगः, सर्वशोऽघ्राणमयोगः, पूतिद्विष्टामध्यक्लिन्नविषपवनकुणपगन्धादिघ्राणं घ्राणमिथ्यायोगः । तत्रैकं स्पर्शनेन्द्रियमिन्द्रियाणामिन्द्रियव्यापकं चेतःसमवायि स्पर्शनव्याप्त -
ापकमपि च चेतस्तस्मात् सर्वेन्द्रियव्यापकस्पशकृतो यो भावविशेषः सोऽयमनुपशयात् पञ्चविधस्त्रिविधविकल्पो भवत्यसात्मेन्द्रियार्थसंयोगः। सात्मप्रार्थो ह्य पशयार्थः। कतिधापुरुपीये च।—“अत्युग्रशब्दश्रवणात् श्रवणात् सर्वशो न च। शब्दानाञ्चातिहीनानां भवन्ति श्रवणाजड़ाः ॥ परुषोद्भीषणाशस्ताप्रियव्यसनसूचकैः। शब्दैः श्रवणसयोगो मिथ्यायोगः स उच्यते ।। असस्पर्शोऽतिसंस्पर्शी हीनसंस्पर्श एव च। स्पृश्यानां संग्रहेणोक्तः स्पर्शनेन्द्रियवाधकः।। यो भूतविषवातानामकालेनागतश्च यः । स्नेहशीतोष्णसंस्पर्शी मिथ्यायोगः स उच्यते ॥ रूपाणां भास्वतां दृष्टिविनश्यति हि दर्शनात् । दर्शनाचातिसूक्ष्माणां सर्वशश्चाप्यदश नात् ।। हिष्टभैरवबीभत्सदूरातिक्लिष्टदशनात् । तामसानाञ्च रूपाणां मिथ्यासंयोग उच्यते ॥ अत्यादानमनादानमोकसात्म्प्रादिभिश्च यत् । रसानां विषमादानमल्पादानञ्च दृषणम् ॥ अतितावत्कालजे, यतः कालो हि तत्र सम्यग्युक्त एव, कालसम्यग्योगश्च न व्याधिकारणमिति सिद्धान्तः। अथ कालप्रतिनियतः तत्रासाम्यन्द्रियाथसंयोग एव कारणमिष्यते, तथाप्येव सति कालमिथ्यायोगादावप्यसात्म्येन्द्रियार्थसंयोग एव कारणमिति वक्तुं पारयते ; तस्मादस्मिन् मार्गे एवं बुद्धिवर्णयति यत्- सहजानां विकाराणां निष्प्रतिक्रियत्वेनेहायोगादिजन्यत्वेनावरोधो न कृत
For Private and Personal Use Only