________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः सूत्रस्थानम् ।
१२५ सम्यग्योग तथाविधं त्रिविधं कर्म नोपपद्यते, इति त्रिविधविकल्प तत्रिविधमेव कर्म प्रज्ञापराध इति व्यवस्येत् । कतिधापुरुषीयेऽपि “विषमाभिनिवेशो यो नित्यानित्ये हिताहिते। शेयः स बुद्धिविभ्रंशः समं बुद्धिहिं पश्यति ॥ विषयप्रवण चित्त धृतिभ्रंशान्न शक्यते। नियन्तुमहितादाद धृतिहि नियमात्मिका । तत्त्वज्ञाने स्मृतिर्यस्य रजोमोहाटतात्मनः। भ्रश्यते स स्मृतिभ्रशः स्मर्त्तव्यं हि स्मृतौ स्थितम् ॥ धीधृतिस्मृतिविभ्रष्टः कर्म यत् कुरुतेऽशुभम् । प्रशापराधत विद्यात् सर्वदोषप्रकोपणम् ॥ उदीरणं गतिमतामुदीर्णानाञ्च निग्रहः । सेवनं साहसानाञ्च नारीणाश्चातिसेवनम् ॥ कर्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम् । विनयाचारलोपश्च पूज्यानाञ्चाभिघर्षणम् ॥ ज्ञातानां स्वयमर्थानामहितानां निषेवणम् । परमोन्मादिकानाश्च प्रत्ययानां निषेवणम् ।। अकालादेशसञ्चारौ मैत्री संक्लिष्टकम्मभिः । इन्द्रियोपक्रमोक्तस्य सदवृत्तस्य च वर्जनम् ॥ ईर्ष्यामानभयक्रोधलोभमोहमदभ्रमाः। तज्ज वा कम्म यत् क्लिष्टा क्लिष्ट यद्दे हकम्मे च ॥ यच्चान्यदीदृशं कम्मे रजोमोहसमुत्थितम् । प्रज्ञापराध तं शिष्टा ब्रुवते व्याधिकारणम् ॥ बुद्ध्या विषमविज्ञानं विषमञ्च प्रवर्तनम् । प्रज्ञापराधं जानीयान्मनसो गोचरं हि तत् ॥” इति । सामान्यतो निर्दिष्ट विशेषयिखा बोध्यम् । तथार्थानामतिमात्रपटहोत्कृष्टादिशब्दानामतिमात्रं श्रवणमतियोगः, सर्वशोऽश्रवणमयोगः, परुषेष्टविनाशोपघातप्रधर्षणभीषणादिशब्दश्रवणं मिथ्यायोगः। तथातिशीतोष्णानां स्पृश्यानां स्नानाभ्यङ्गोत्सादनादीनाश्चात्युपसेवनमतियोगः, सर्वशोऽनुपसेवनमयोगः, विषमस्थानाभिघाताशुचिभूतसंस्पर्शादयश्चेति मिथ्यायोगः। तथातिप्रभावतां दृश्यानाश्चातिमात्रं दर्शनमतियोगः, सव्वशोऽदर्शनमयोगः, अतिसूक्ष्मातिविप्रकृष्टरौद्रभैरवाद भुतद्विष्टबीभत्सविकृतादिरूपदर्शनं मिथ्यायोगः । तथा रसानामत्यादानमतियोगः, सर्वशोऽनादानमयांगः, आहारद्रव्याणा: मतिप्रमाणानामादानमतियोगः। सघशोऽल्पप्रमाणानां वाऽनादानमयोगे अन्तर्भवति । मिथ्यायोगस्तु रसनार्थानां प्रकृतिकरणसंयोगदेशकालोपयोगसंस्थोपयोक्तृणामाहारविधिविशेषायतनानां सप्तानां विपर्ययेणोपयोगः। तत्र नाभिशंसेबुधो देवान् न पितॄन् न च राक्षसान् ॥” जनपदोद्धसनीयेऽप्युक्त “तस्य मूलमधम्मः, तन्मूलञ्चासत् कर्म पूर्वकृतम्, तयोर्योनिः प्रज्ञापराध एव”। तदेवं कर्मापेक्षद्वयमुपदर्शितम्, बलाबलन्तु विद्वांसश्च स्वयमेव निर्लोचयिष्यन्ति। इदन्त्वत्र चिन्त्यता, स्वाभाविकानां धुत्पिपासादीनां तथा कालसम्यगयोगेऽपि जायमानानां दोषचयप्रकोपाणां व प्रवेशो भवतु, न
For Private and Personal Use Only