________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
चरक-संहिता। [ दीर्घजीवितोयः अतिस्वलक्षणा खतिस्मारयन्ती अतिचेष्टयतीति स्मृत्यतियोगाच्छारीरातियोगः । विपरीतरवलक्षणा तु स्मृतिरन्यथा स्मारयन्ती चान्यथा चेष्टयतीति स्मृतिमिथ्यायोगाच्छारीरमिथ्यायोगः। इति बुद्धग्रादित्रययोगत्रयाच्छारीरकर्मयोगत्रयादभिघाताद्यागन्तुजा ज्वरादयः स्युरित्येव युक्तया प्रज्ञापराधादेवेन्द्रियार्थायोगमिथ्यायोगातियोगा भवन्त्येव ति चेत् तथापि शारीरेष्वङ्गषु वाह्य षु मध्ये बुद्धीन्द्रियाणां बुद्धिहेतुखेन प्राधान्यात्तेषां व्यापत्करधातुवैषम्यहेतुमसात्मेन्द्रियार्थसंयोगं पृथगुपदिदेश। तत्र सततावधानविधानार्थमिति । एवं प्रशापराधादेवाधर्मः स्यात् प्रज्ञापराधकृतवादधम्म हेलसत्कमण इति न तस्य पृथगुपादानमिति। तथा च स्वयं तिस्रपणीयेऽध्याये वक्ष्यति। शीतोष्णवर्ष लक्षणाः पुनहेमन्तग्रीष्मवर्षाः संवत्सरः। स कालः। तत्रातिमात्रस्वलक्षणः कालातियोगः। हीनस्वलक्षणः कालायोगः । यथास्खलक्षणविपरीतलक्षणस्तु कालमिथ्यायोगः। कालः पुनः परिणाम उच्यते, इति। तेनात्र कालशब्देन यथास्वलक्षणहीनातिमिथ्यालक्षणतुरूपः। तथावेऽपि भावानां परिणतिहेतुखानपायात्। न तु समलक्षणः कालो गृह्यते वैषम्याजनकवेन व्यभिचारात्। अत्र तु धातुवैषम्येऽव्यभिचारिहेतुसंग्रहोऽभिप्रेतः। कतिधापुरुषीये सर्वहेतुसंग्रहोऽभिप्रेत इति बोध्यम् । एवं तत्रैवोक्तम् । कम्मे वाङ्मनःशरीरप्रत्तिः । तत्र वाङ्मनःशरीराणामतिप्रत्तिरतियोगः। सबंशोऽप्रवृत्तिरयोगः। सूचकानृताकालकलहाप्रियावद्धानुपचारपरुषवचनादिर्वामिथ्यायोगः। भयशोकक्रोधलोभमोहमानेाभिध्यादर्शनादिर्मानसो मिथ्यायोगः। वेगविधारणोदीरणविषमस्खलनगमनपतनादिप्रणिधानाङ्गप्रदूषणप्रहारावमद्द नप्राणोपरोधसंक्ले शनादिः शारीरो मिथ्यायोग इति। एवमयोगात् योगवज कम्म वामनःशरीरजमहितमनुपदिष्टं यत् तदपि मिथ्यायोगं विद्यादिति ।
यत् कम्मे त्रिविधं वाङ्मनःशरीराणामुक्तं तद, बुद्धरतियोगायोगमिथ्यायोगेभ्यः सम्यगयोगविपरीतेभ्य एव भवति। सति हि बुद्धेः कारणत्वेनोपलभ्यन्ते ; तस्मान्न तत्र कालमिथ्यायोगादिजन्या आचार्य्यस्याभिप्रताः, किन्तु कालाभिव्यञ्जनीयाः कालजाः, अत एव च तत्र “सम्प्राप्तिः कालकर्मणाम्” इति पठितं न तु “कालो मिथ्या न चाति च युक्तः” इति कृतम् । किञ्च तत्रापि कालमभिधायापि कम्मणामिति पदं पृथक् पठितम्, कालजातः कर्मजः पृथगेव सूचितः ; किञ्च उन्मादनिदाने साक्षादेवाचार्येण कमंजस्य प्रज्ञापराधजत्वमुत्त.म् ; वचनं हि “प्रज्ञापराधात् सम्भूते व्याधौ कर्मज आत्मनः ।
For Private and Personal Use Only