________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ]
सूत्रस्थानम् ।
१२३
विभीषयति न शोचयति शोचकादशोचकाद्वा शोचयति न कोपयति कोपनात अकोपनाद्वा कोपयति लोभयत्यलोभनीये लोभनीये च न वा लोभयति न मोहयति मोहनादमोहनाद्वा मोहयति नाभिमानयत्यभिमानिकेऽनभिमानिकेवाऽभिमानयति चित्तं न चेपप्रयतिष्यणीयायानीष्येणीयाय वेययति द्रोहयत्यद्रोहणीयाय न द्रोहयति च द्रोहणीयायवमादिधृतिमिथ्यायोगान्मनोमिथ्यायोगः । तथा स्मृतिरपि हीनस्वलक्षणा चेत्तहि कचिच्चित्तमाप्तोपदिष्टार्थं हितमहितञ्च स्मारयति न वा क्वचित् काले इति स्मृतिहीनयोगान्मनोहीनयोगः । अतिलक्षणा तु स्मृतिरतिस्मारयति चित्तं हितमथमहितञ्च शोचनीयादिकमिति स्मृत्यतियोगान्मनोऽतियोगः । स्वलक्षणविपरीतलक्षणा पुनहितमहितं स्मारयति स्मारयति चाहितं हितमिति । तद्यथा । शोकमशोकशोकं शोकमित्येवमादि स्मृतिमिथ्यायोगान्मनो मिथ्यायोगः । इति बुद्धयादित्रयत्रियोगान्मनस्त्रियोगतः कामशोकादिहेतुका ज्वरातिसारादय आगन्तवो भवन्ति ।
अथ हीनलक्षणा बुद्धिर्नावश्यम्भावे चेष्टयति श्रोत्रादीनीन्द्रियाणि हस्ता दीनि च स्वार्थेषु शेषमङ्गस्येति बुद्धिहीनयोगाच्छरीरहीनयोगः । अतिलक्षणा तु योजयत्यतिमात्रेण चेष्टयति चेति बुद्धप्रतियोगाच्छरीरातियोगः । विपरीतलक्षणा पुनवेगविधारणविषमस्खलन पतनगमनप्रहरणप्राणरोधाङ्गविन्यासवैषम्यादिकं जनयतीति बुद्धिमिथ्यायोगाच्छारीरो मिथ्यायोगः । एवं धृतिश्च हीनस्वलक्षणा हिते शारीरकम्मैणि शरीरं चेष्टयति मुहुरिति धृतिहीनयोगा
हीनयोगः । अतिस्वलक्षणा तु हितेऽपि शारीरकम्मणि न चेष्टयत्यकालेऽपीति नृत्यतियोगाई हातियोगः । विपरीतलक्षणा तु धृतिर्हिते शारीरकर्म्मणि न चेष्टयति काले चेष्टयत्यकाले चाहिते चेति वेगविधारणादि स्यादिति धृतिमिथ्यायोगाच्छारीरमिथ्यायोगः । अथ स्मृतिर्यदि हीनस्वलक्षणा तदाप्तोपदिष्टार्यानल्पं वा न वा स्मारयन्ती शारीरकम्मसु शरीरं हस्तादिकमल्पं वा न वा चेष्टयति इति स्मृतिहीनयोगाच्छारीरहीनयोगः । प्रवर्त्तन्ते, प्रज्ञापराधजन्या वा सव्र्व एवाविशेषेण कालकृताः, अभिव्यक्तिमात्रपरिग्रहणात् तत्र कालसम्प्राप्तिजन्या इत्युक्ता गदाः । तथाहि तत्र सन्ततादिज्वरा अपि कालजन्या एवोक्ताः, वचनं हि “सन्ततः सततोऽन्येद्य स्तृतीयकचतुर्थौ । स्वे स्वे काले प्रवर्तन्ते काले ह्येषां बागमः ॥” इति । न च सन्ततादौ कालस्य मिथ्यायोगादयः कारणत्वेनोपलभ्यन्ते, किन्तु असात्म्येन्द्रियार्थसंयोगप्रज्ञापराधावेव तथा स्वाभाविकेषु च रोगेषु न कालमिथ्यायोगादयः
For Private and Personal Use Only