________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. १२२
चरक-संहिता। [ दोघञ्जीवितीयः स्मृतिस्तु स्म तव्याधिष्ठिता, सा ह्याप्तोपदिष्टान् स्मर्तव्यानथान् वैधान् मानसे नियमतो निधायाभ्रान्त्या तत्त्वतोऽनुभावयन्त्यनुवर्तयन्ती च विहिता हिता वाङ्मनःशरीरप्रवृत्तीजनयति नातोऽविहितानर्थान् अहितानाचरितुं शक्नोति कश्चित् स्मृतिमानिति। तद यथा ।-देवानृषीन गुरून गा नमस्यान साधून वाचस्तावयति हितश्च मधुरश्च प्रियश्च मृदु च नात्युच्चै तिनीचैः सत्यं कालेऽनुकूलं वाचयति मनश्च तान पूजयति भक्तिश्रद्धातिशयेन मानयति काले हिते चावश्यके चार्थे पाणी पादादीनि च स्वस्थकर्मणि यथार्हाणि प्रयोजयति कर्तुं मिति स्मृतिसमयोगः सुखहेतुः । सा पुना रजस्तमोभ्यां परिभूता खलक्षण हीनलक्षणा देवादीन कचिदचयति नाचयति वा कचिन्मधुरां कचित् परुषां कचित् प्रियां क्वचिदपियां वा सत्यां वानृतां वाऽनुकूलां वाननुकूलां वा वाचं वाचयति विनष्टा च न देवादीन् वाच्यं स्तावयति नार्चयति न मधुरां न प्रियां न सत्यां वा वाचं वाचयति नानुकूलामित्येवमादिः स्मृत्ययोगाद वागयोग इति बुद्धग्रादित्रयायोगाद्वागयोगत्रयं तस्मात सिद्धद्धगुरुदेवब्राह्मर्णा प्रभृतीनामवमानेन कोपादभिशापाभिचारादितो भस्मताप्राप्तिरागन्तुज्वरादयो वा भवन्ति। कलहाभिनिर्व तिर्वा जनानां कोपादिति। अथ हीनस्वलक्षणा च बुद्धिर्नावश्यम्भावे निवेशयति चित्त हिते वा नावश्यके निवेशयत्यहिते वेति बुद्धिहीनयोगान्मनोहीनयोगः। सा पुनः स्व लक्षणाऽतिलक्षणा चेत् तर्हि नित्यावश्यके काले चाकाले च हिते चाहिते चातिमात्रं निवेशयति चित्तमिति मनोऽतियोगो बुद्धप्रतियोगात्। सा पुनः स्व लक्षणविपरीतलक्षणा चेत्तदा भयशोककोपलोभमोहमानेामिथ्यादर्शनादिषु मनो निवेशयति नित्ये चानित्ये चार्थे हिते चाहिते चेति बुद्रिमिथ्यायोगान्मनोमिथ्यायोगः। एवं धृतिश्च स्खलक्षणहीनलक्षणा चेत् तहि चित्तमहितेऽर्थे चपलयति न च हिते नियमयतीति धृतिहीनयोगान्मनोहीनयोगः। सा चातिवलक्षणा तु चित्तमर्थेऽप्यहिते काले चातिमात्रं निवर्तयति न च हितेऽपि प्रवर्त्तयतीति धृत्यतियोगान्मनोऽतियोगः। स्वलक्षणविपरीतलक्षणा तु धृतिश्चितं न भीषयति भीषणादभीषणाद्वा स्वाभाविकानां रोगाणां तथा कर्मजानाञ्च कालज एवावरोधः कृतः । उक्त हि तन्त्र “कालस्य परिणामेन जरामृत्युनिमित्तजाः । रोगाः स्वाभाविका दृष्टाः स्वभावो निष्यतिक्रियः ॥” तथा “निर्दिष्टं दैवसंज्ञन्तु कर्म यत् पौर्चदैहिकम्। हेतुस्तदपि कालेन रोगाणामुपलभ्यते ॥” अत्रापि बुद्धिमिथ्यायोगरूपः प्रज्ञापराध एव रोगजनककर्मकारणम्। कालविशेष प्राप्य तु येषां व्याधीनामागमो भवति, ते कालमिथ्यादियोगजन्या वा भवन्तु, असात्म्येन्द्रियार्थाद्वा काले
For Private and Personal Use Only