________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ]
सूत्रस्थानम् ।
१२१
हिते चावश्यम्भावे हितं वाचयति वाच काले काले चाहितमहिते वाच्य वाचयत्यवश्यम्भावे । नित्ये चावश्यम्भावे मनो निवेशयति काले । काले च मनो निवेशयत्यनित्येऽवश्यम्भावे । हिते च हितं मनोऽवश्यम्भावे निवेशयति काले । काले च हितं मनो निवेशयत्यहितेऽवश्यम्भावे । काले च दापयत्यादापयति यमाय हितं पाणी नाकाले न चाहितम् । गमयति काले चागमयति काले हितं गम्यमागम्यं पादौ नाकाले न चाहितम् । पुमांसं शाययति स्थापयत्यासयति हितं काले नाकाले न चाहितम् । काले सृजति मूत्र काले च शकृत् । रमयति काले हितं विहितं नाकाले न चाहितमिति बुद्धिसमयोगः सुखहेतुः । सा च हीनस्वलक्षणा चेत् तहि काले चाकाले हिते चाहिते च सर्व्वशो वाच्यं न वाचयतीति बुद्धिहीन योगाद्वागयोगः । स्वलक्षणातिलक्षणा तु बुद्धिः काले चातिवाचं वाचयत्यकाले च हिते चाहिते चाथ इति बुद्धप्रतियोगाद्वागतियोगः । स्वलक्षणविपरीतलक्षणा तु बुद्धिरावश्यकेsaras च हिते चाहिते च वाच' सूचकयत्यनृतयत्यकालकलहे प्रियां करोति पलापयत्यननुकूलयति परुषयतीत्येवमादिवमिथ्यायोगो बुद्धिमिध्यायोगाद्भवति । धृतिश्च चित्तनियमात्मिका । सा हि पुनराप्तोपदेशेन चित्तं नियम् पाहितादर्थाद्धिता एव वाङ्मनः शरीरमत्तीर्जनयति । तद्यथानियमति वाचमर्थे हिते मनो नियम्य न चाहिते प्रवर्त्तयत्यर्थे । हिते मनो नियमयत्यर्थे न चाहिते । स्वस्वार्थे नियमयत्यर्थे हिते शरीराङ्गाणि मनो नियम्य न चाहिते । इति धृतिसमयोगः सुखहेतुः । सा च हीनस्वलक्षणा चेद्वाचं काले चाकाले च हिते चाहिते च वाचयति मनोऽल्पं नियम्येति धृतिहीनयोगाद्वागयोगः । स्वलक्षणातिलक्षणा तु धृतिर्हिते चाहिते चातिशयेन मनो नियम्य न वाच्यं वाचयतीति धृत्यतियोगान्नियतवागतियोगः । स्वलक्षणविपरीतलक्षणा तु धृतिरहितादर्थान्मनो न नियन्तुमर्हति विषयप्रवणम् । तेन वाचमन्यथा वाचयति देव गां गुरु वृद्धान् सिद्धानृषीन् निन्दयति यद्वाचा न युज्यते यस्तं तथा वाचयति इति धृतिमिथ्यायोगाद्वा मिथ्यायोगः ।
यत्तु उच्यते कालपरिणामजायमानत्वात् कर्म्मजविकाराणां कालजत्व', यदुक्त' "काला परि णामेन जरामृत्युनिमित्तजाः । शेगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः ॥ तन्न, तथा सति, असात्म्येन्द्रियार्थ संयोगजस्यापि किञ्चित्कालपरिणामजायमानस्य कालजत्व ं स्यात्, न च कालाति-योगाद्यभिधायिग्रन्थे तिस्रषणीये कमवरोधः कथमपि प्रतिभाति ; कतिधापुरुषीये तु "वीष्टतिस्मृतिविभ्रंशः सम्प्राप्तिः कालकर्म्मणाम् । असात्मेन्द्रियसंयोगा विज्ञेया रोगहेतवः ॥" इत्यभिधाय
१६
For Private and Personal Use Only