________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
चरक संहिता |
[ दोर्घञ्जीवितीयः
यश्च
जन्यपापस्यापि प्रज्ञापराधेऽन्तर्भाव इत्याह तद्वीजाक रन्यायेन सङ्गतम् । पापस्य कर्म्मजव्याधौ साक्षाद्धेतुखं नान्यत्र ततोऽत्र हेतुसंग्रहे संग्रहो न युज्यते । यत् तु कालपरिणामेन पापस्य रोगहेतुत्वात् कालेऽन्तर्भीव इति वदति तदपि न युक्तं सर्व्वस्यैव हेतोः कालेनार्थकत्वात् कालेऽन्तर्भीवापत्ते रोगजनकत्वाच्च ।
बुद्धिरिति । यद्यपि बुद्धिः पञ्चधा कतिधापुरुषीये दृश्यते - “ चेतना धृतिः । बुद्धिः स्मृतिरहङ्कारो लिङ्गानि परमात्मनः” इति वचनेन, तथाप्यत्र बुद्धिश्चेतनाtara त्रिविधा धृतिबुद्धिस्मृतिभेदेन सम्भाव्यते । चेतना हि सा यया वस्तूनि पश्यन्नपि जातमात्रबाल इव न विजानीते, शब्द शृण्वन्नपि न बुधाते किमिदमिति, स्पृश्यं स्पृशन्नपि न वेत्ति किमिदमिति, दुग्धादीन् पिन्नपि न जानीते किमिदमिति, गन्धं जिघ्नन्नपि नावगच्छति किमिदमिति । तच्च चैतन्यमात्र, येन बुद्धिकम्मे न्द्रियाणि स्वार्थेषु केवलं प्रयुङ्क्ते न तु तत् स्वार्थविज्ञानायेति । तथाविधायाश्चेतनाया भ्रंशासम्भवात् । अद्दकारो हि त्रिविध वैकारिकस्तेजसस्तामसश्चेति । तत्र वैकारिको जागरितावस्थायां प्रत्यक्षादिघी धृतिस्मृतिहेतुः । तैजसः स्वप्नावस्थायां प्रविविक्तोपभोगहेतुबुद्धिरन्तःप्रज्ञानमुच्यते । तामसः सुषुप्तावस्थायामानन्दमात्रोपभोग हेतु बुद्धिः प्रशाऽभिधीयते । तथाविधस्याहङ्कारस्य विभ्रंशासम्भवाच्च तद्विभ्रंशेऽजागरितोऽसुप्तोऽसुषुप्तव स्यात् तथात्वं तु नास्ति च लोके । धृतिर्हि नियमात्मिका तस्याभ्रंशसम्भवाच्च बुद्धिर्हि समदर्शिनी तस्या अपि भ्रंशसम्भवाच्च - स्मृतिर्हि स्मत्तेव्याधिष्ठिता तस्याश्च भ्रंशसम्भवाच्चेति मेधा तु धारणावती बुद्धिरेवेति नाधिकत्वात् नास्या असग्रहः । कतिधापुरुषीयेऽपि धीधृतिस्मृतिविभ्रंश इति दर्शनाच्च त्रिधैव बुद्धिगृह्यतेऽत्र । तासु मध्ये बुद्धिः समदर्श नलक्षणा, सा चाप्तोपदेशेन समयोगात् समां वामनः शरीरमवृत्तिं जनयति । तद्यथा - नित्यावश्यम्भावे वाच्य वाच वाचयति काले। काले चानित्ये वाच्यं वाचं वाचयत्यवश्यम्भावे प्रविशति, तथापि प्रत्यासन्नकारणत्वादसात्मेन्द्रियाथसंयोग एवायं पृथक् तन्वं सूच्यते, प्रज्ञापराधस्त्वसात्मेपन्द्रियार्थसंयोगव्यतिरिक्तकायवाङ्मनः क्रियापराधे वर्त्तते ।
• अल चाधम्र्मोऽपि व्याधिहेतुरस्ति, यदुक्त' “क्रियान्नाः कम्र्म्मजा रोगाः" इत्यादि, तस्य चाधर्म्मस्य कालग्रहणेनैव ग्रहणं केचिन्मन्यन्ते, तन्न, तिस्रषणीये प्रज्ञापराधेनैवाधम्मंग्रहणात्, तत्र हि, अनु - वचनाभिध्यादिवाङ्मनोमिथ्यायोगरूपः प्रज्ञापराधविशेष उक्तः; न त्वनृतवचनादीनां स्वरूपेण व्याधिकर्त्तृत्व ं किन्त्वधर्मोत्पादावान्तरव्यापाराणामेव तेन प्रज्ञापराध एवाधम्र्मोत्पादावान्तरव्यापारः कर्म्मजरोगेषु कारणं, योग इव धम्र्मोत्पादावान्तरव्यापारः स्वर्गे ।
;
For Private and Personal Use Only