________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः]
सूत्रस्थानम् । जयश्च ये। येषु कालेषु नियता ये रोगास्ते च कालजाः॥ अन्येदुनष्को छाहग्राही तृतीयकचतुर्थको। स्वे स्वे काले प्रवत्तन्ते काले ह्येषां बलागमः ॥ एते चान्ये च ये केचित् कालजा विविधा गदाः। अनागते चिकित्स्यास्ते बलकालो विजानता॥ कालस्य परिणामेन जरामृत्युनिमित्तजाः । रोगाः स्वाभाविका दृष्टाः स्वभावो निष्पतिक्रियः॥ निर्दिष्टं देवशब्देन कर्म यत् पौवदेहिकम् । हेतुस्तदपि कालेन रोगाणामुपलभ्यते॥ न हि कर्मा महत् किञ्चित् फलं यस्य न भुज्यते। क्रियानाः कम्जा रोगाः प्रशमं यान्ति ततक्षयात् ॥” इति । इत्थश्चापि मिथ्याहीनातिलिङ्गानि कालस्य प्रज्ञापराधादेव जायन्ते पापानि च । जनपदोद ध्वंसनीये हि वायुरुदकं देशः काल इति चखारो भावा जनपदोद ध्वंसने सामान्यहेतव उक्तास्तेषां यथाविधत्वेन हेतुखम् । तदुक्तंकालं तु खलु यथत लिङ्गविपरीतलिङ्गमतिलिङ्ग हीनलिङ्ग चाहितं व्यवस्येदिति वक्ष्यते। तदुत्तरमग्निवेशप्रश्नः-“अथ खलु भगवन् कुतोमूलमेषां वाय्वादीनां वैगुणामुतपद्यते येनोपपन्ना जनपदमुद ध्वंसयन्तीति । तमुवाच भगवानात्रेयः -सब्वेषामप्यग्निवेश वायवादीनां यद वैगुणामुत्पद्यते तस्य मूलमधम्मस्तन्मूलञ्चासत्कम्मे पूर्वकृतं, तयोयोनिः प्रज्ञापराध एवेति” वक्ष्यते। तथा कतिधापुरुषीये-"धीधृतिस्मृतिविभ्रंशः सम्माप्तिः कालकम्मेणाम। असात्म्यार्थागमश्चेति विशे या दुःखहेतवः ॥” इति । रोगहेतुसंग्रहे धीधृतिस्मृतिविभ्रंश एव बुद्धेमिथ्यादियोगः कालमिथ्यादियोगस्वसात्म्यागमेऽन्तर्भूत एव न तु कम्मेणामिति। कालशब्देन भावानां परिणतिप्रतिनियतः कालो मिथ्यादियोगवान् वा समो वा तस्य सम्पाप्तर्धातुवैषम्यजनकले व्यभिचाराद्धीनमिथ्यातिलिङ्गस्य तु व्यभिचारादसात्म्यार्थागमेऽन्तर्भूय कारणान्तरेण जन्यमानभावानां परिणतो हेतुत्वेन प्राकृतवैषम्यहेतुत्वेन च पृथगुपदिष्टः। तथा चार्थस्य व्यञ्जकोत्पादकसव्वहेतूपसंहाराभिप्रायात्। एवं कालस्य तद्देशपरिहारमन्तरेण हीनातिमिथ्यालक्षणस्यापरिहाय्यखेन बुद्धप्रादेः पूर्वमभिधानमिति। प्रज्ञापराधजन्यखात् विषमवाअनःशरीरमत्तिलक्षणकम्प्रेण इव विषमवाअनःशरीरप्रवृत्तिमनासारीराधिष्ठानत्व पृथक् च मिलितञ्च बोद्धव्यम्। त्रिविध इत्ययोगातियोगमिथ्यायोगरूपः, देखसंग्रहो हेतुसंक्षेपः । एते च कालादीनामतियोगायोगमिथ्यायोगास्तिनेषणीये "तत्रातिप्रभावताम्' हत्याविना मन्थेन सुम्यक्त नाच्याः, नेह वित्रियन्ते। कालग्रहणं विहादौ कृतं कालस्य दुष्परिहारस्वात् । तनु बुदिरुच्यते, बुद्धयपराधस्यैव इन्द्रियार्थातियोगादिहेतुत्वात्, वक्ष्यति हि "प्रज्ञापराधादयहितानर्थान् पञ्च निषेधते"। एवञ्च यद्यप्यसात्मेन्द्रियार्थसंयोगः प्रज्ञापराधे
For Private and Personal Use Only