________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
चरक-संहिता। [ दीर्घजीवितीयः प्राप्तौ यत् पुनरिन्द्रियग्रहणं कृतं तेन मनोऽर्थः पुनश्चिन्त्यमिति च यद्वक्ष्यते तात्तिः कृता ; स्वशास्त्र मनस इन्द्रियाभिधानाभावात् परतत्रसिद्धेन्द्रियखानुमतत्वेऽपि स्वतन्त्र व्यवहारार्थं पञ्चेन्द्रियाणीत्युक्तम् । कालश्च बुद्धयश्चेन्द्रियार्थाश्चेति तेषां योगः सम्बन्धः पुरुषे मिथ्या च न चाति चेति त्रिविधविकल्पो द्वयाश्रयाणां व्याधीनां त्रिविधो हेतुसंग्रहः । अथवा। कालश्च बुद्धयश्चेन्द्रियाणि च तैः सहार्थानां योगो मिथ्या न चाति च। कालैरर्थस्य पुरुषशरीरस्य योगः। बुद्धिभिरर्थस्य बोद्धव्यचिन्त्यादयोगः। इन्द्रियैः श्रोत्रादिभिः स्वस्वार्थानां शब्दादीनां योग इति। मिथ्या यथार्थविपर्ययः । नअर्थोऽत्र कचिदल्पवं कचित् सर्वशः प्रतिषेध इति। अतीति अतिशयः। द्वयं शरीरं सत्त्वसंशश्चाश्रयोऽधिकरणं येषां तेषां तथा। व्याधीनामव्यवहितपूर्वोत्तरकालप्रवृत्तिशीलधातुवैषम्यदुःखानां हेतुरव्यभिचारी हेतुस्तेषां संग्रहः संक्षेपः। सूत्रमिदं स्वयं भाष्येण तिस्रषणीये व्याख्यास्यते। तद यथा-शीतोष्णवर्षलक्षणाः पुनहेमन्तग्रीष्मवर्षाः संवत्सरः, स कालः। तत्रातिमात्रस्खलक्षणः कालातियोगः। हीनखलक्षणः कालायोगः। यथास्वलक्षणविपरीतलक्षणस्तु कालमिथ्यायोगः। कालः पुनः परिणाम इति। अत्र परिणामखवचनेनं कालस्य कारणान्तरजन्यमानभावानां परिणतिहेतुखस्वभावः ख्यापितस्तेन हीनातिमिथ्याभूतः कालो वातपित्तकफरजस्तमसां वैकृति प्राङ्गादिस्तत्तदोषसमगुणः प्रकृतानां वैषम्यलक्षणां दुष्टिं जनयति, तथा च यथास्वलक्षणस्तु भावानां तत्तद्रूपेण कारणान्तरजन्यमानानां परिणतिं जनयति न तु वैकृतवैषम्यमित्यभिप्रायेणात्र प्राङ्गादिकालस्य सम्प्राप्तिन पृथगुक्ता। यद्वात्र कालस्य हीनातिमिथ्याभूतयोगानामव्यभिचारिहेतुखेनोक्तिः। कतिधापुरुषीये तु कालसम्माप्त र्यद्धेतुत्वं वक्ष्यति तत् तु तत्रैव तदुदाहरणदर्शनात् तत्तद्रूपेण कारणान्तरोत्पाद्यमानभावानां ताद्र प्येण परिणतिजनकखं बोध्यम् । यदुक्तमुदाहरणम् ।-"निर्दिष्टा कालसम्माप्तिाधीनां हेतुसंग्रहे। चयप्रकोपप्रशमाः पित्तादीनां यथा पुरा॥ मिथ्याऽतिहीनलिङ्गाश्च वर्षान्ता रोगहेतवः। जीर्णभुक्तमजीर्णान्नकालाकालस्थितिश्च या॥ पूर्वमध्यापरालाश्च रात्रया यामाइति। कालः शीतोष्णवर्षलक्षणः, बुद्धिः प्रज्ञा, इन्द्रियार्थाः शब्दरूपरसस्पर्शगन्धाः, तत्सहचरितानि द्रव्यगुणकाणीन्द्रियद्वारोपयुज्यमानानि ; तेषां कालादीनां योगः सम्बन्धः। तस्य विशेषलक्षणं विशेषणत्रयं-मिथ्या न चाति चेति । तन कालादीनां मिथ्यायोगः, न च योगोऽयोग इत्यर्थः, अति च योगोऽतियोग इत्यर्थः। द्वयाश्रयाणामिति मनःशरीराश्रयाणाम्, एतच्च
For Private and Personal Use Only