________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः]
सूत्रस्थानम् । कालबुद्धीन्द्रियार्थानां योगो मिथ्या न चाति च।
द्वयाश्रयाणां व्याधीनां त्रिविधो हेतुसंग्रहः॥ २६ ॥ धातुसाम्यन्तु प्रकृतिरारोग्यमित्येकोऽथः । “विकारो धातुवैषम्यं साम्य प्रकृतिरुच्यते। सुखसंशकमारोग्य विकारो दुःखमेव तु ॥” इति वक्ष्यते। अत्रायमभिसन्धिः-सर्वत्रैव मुख्यप्रयोजनं सुख दुःख निवृत्तिश्च। तदुभयं न धातुसाम्यकार्यम्। धातुसाम्यकार्य हि मुखम्। दुःखनिवृत्तिस्तु मोक्षे भवति । न तदा नित्यमुखाभिव्यक्तिर्भवति। पारमार्थिकतत्वज्ञानात्तु निःशेषण दुःखनिवृत्तिर्भवति। यदि वा यावन्न पारमार्थिकतत्त्वज्ञानमुदति न तावन्मनः समधातु भवति तस्मात् धातुसाम्यक्रियैव दुःखनिवृत्तिरिति ।
यस्तु व्याचष्ट । इत्युक्त सामान्यादिकं षड्विध कारणमुक्तम्, इह शास्त्रे धातुसाम्य कार्यमुच्यते। च यस्माद्धातुसाम्यक्रियाऽस्य तत्रस्य प्रयोजनमिति। तन्त्र साधु। विषमधातोरेव हि धातुसाम्यकरणमुपपद्यते। स्वस्थस्य धातुसाम्यरक्षणं प्रयोजनमस्य तत्रस्य नोक्तं भवति। तत्प्रयोजनाय च वस्थपरायणहेतुलिङ्गौषधशान मिह शास्त्रे प्रोक्तमिति । सुश्रुते चोक्तम् । “आयुवेदप्रयोजनं व्याध्युपसृष्टानां क्याधिपरिमोक्षः स्वस्थस्य रक्षणञ्च ति" ॥२५॥
गङ्गाधरः-धातुसाम्ये सति धातुसाम्यकरणमनुपपन्न धातुसाम्यरक्षणमेपोपपद्यते। धातुवैषम्ये धातुसाम्यकरणमुपपद्यते। तच धातुवैषम्यं कुतो भवति कुतो वा साम्यमित्यतः संग्रहेण तयोः कारणमाह, कालबुद्धीन्द्रियार्थानामित्यादि। अत्र बुद्धिपदेन धीधृतिस्मृतयस्तत्प्रयुक्तवामनःशरीरप्रवृत्तियोच्यन्ते। तथैव प्रपञ्चयिष्यति तिस्रषणीये कतिधापुरुषीये च। इन्द्रियपदेनेहार्योपादानात् वाह्यानां श्रोत्रादीनां पञ्चानां ग्रहणम् । तेन मनोमनोऽचिन्तनीयादीनां व्यात्तिः कृता। इन्द्रियोपक्रमेऽध्याये हि पञ्चेन्द्रियाणीति वक्ष्यते। यदापि पश्चार्था इति च तत्रैव वक्ष्यते, अर्थाः शब्दस्पर्शरूपरसगन्धा इति च वक्ष्यते, तेनार्थपदमात्रग्रहणेन पश्चानां कार्यमुच्यते। इह तु किमिति तत्कायं नोच्यते ? इत्याह, धातुसाम्येत्यादि ।-चकारः हेतो, धातुसाम्यक्रियैव यस्मात् आयुर्वेदप्रयोजनं, तस्मादायुर्वेदे धातुसाम्यमेवोच्यते कार्याम् ; अन्यत्तु अविवक्षितत्वात् तथाऽप्रधानत्वाञ्च नेह कार्यत्वेनोच्यते ॥२५॥
चक्रपाणिः-सम्प्रति सामान्येन कारणमुक्तं तदायुर्वेदोपयुक्तद्वारेण वक्तव्यम्, तत्र व्याधिकारणमेव तावदप्रेऽभिधीयते कालेत्यादिना सूत्रक्रमानुरोधात्, सूत्रणं हि "हेतुलिङ्गौषधज्ञानम्"
For Private and Personal Use Only