________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
चरक-संहिता। [ दीर्घक्षीवितीयः कार्यारम्भे पृथिव्याघारब्धे कार्ये पारद यत् कम्म गन्धके च यत् कर्म तत् पारदगन्धकमेलनेन कजलीभूते हिङ्गलीभूते च द्रव्ये पारदकर्मणा कर्तव्यं शरीरभेदकुष्ठादिकं कार्य गन्धकस्थकर्मणा च कार्य यत् तदुभयं विरोषयत् अपूर्वमेक कम निव्वतते इति प्रकृतिद्रवयस्थकर्मणा कर्तव्यकार्य्यस्य विरोधि कारभ्यते। इति कर्मासाध्यं कर्म न विद्यते। एतत प्रभावादिनिखिलकम्मे व्याखातं भवतीति ।
कथमेवं समवायो भवतीति । द्रव्यगुणकर्मणां द्रव्यं कारण सामान्यम् । पृथिव्याद्यारब्धानां द्रव्यगुणकर्मणामारम्भकं द्रव्यं कारणसामान्यमेकलकरम् । द्रव्यारम्भकद्रव्यमपि हि तद द्रव्याश्रितगुणकर्मणाश्च कारणमाधारभावान खारम्भकं कारणमिति कारणसामान्यं द्रव्यम् ।
उभयथा गुणः। द्रव्यारब्धानां द्रव्यगुणकर्मणामुभयथा कारणसामान्यं कार्यसामान्यञ्च गुण एकलकरः। द्रव्यारम्भे तदारम्भकद्रव्यस्थो गुणस्तेषां काय्यद्रव्यगुणकर्मणां कारण गुणानां कार्याणां श्वेतपीतादीनामुपादानकारणमिव तत्काय्यद्रव्यकर्मणोरपि कारणमविनाभावात् । न हि निर्गुण द्रव्यमस्ति, न चाद्रव्यं कर्मास्ति। ततः सहकारिकारण द्रन्यकर्मणोरपि गुणः। कार्यश्च गुणः, सामान्यं श्वेतपीतादिको गुणः, शङ्खानां श्वेतः सामान्य पलाशकुसुमहरिद्राणां पीतः सामान्यमिति ।
संयोगविभागवेगानां कर्म। संयोगविभागवेगानामुभयथा कारणरूपेण कार्यरूपेण च द्रव्यगुणकर्मणां शरीरादीनां सामान्य कारणसामान्यं कार्यसामान्यश्च कर्म एकलकरम् । संयोगादीन् हि जनयति कर्म। कर्म च संयोगादिभ्यो जायते। कम्मै तु द्रव्याणां सामान्यं भवति । कथं संयोगादीनां कारणसामान्य कार्यसामान्यमिति ।
न द्रवयाणां कम्मै व्यतिरेकात् । कार्यद्रव्याणां कर्म न कारणसामान्य न काय्येसामान्यम् । कस्मात् ? व्यतिरेकात्। देवनरादीनां चेतनानां गमनादि बहुविधं कम्मे नाचेतनानां घटादीनां वा। छागमांसश्च यत्कर्म करोति न तत् कुक्कु टमांसमिति । ____ कस्यचिद्रव्यस्य पुनरव्यतिरेकात् । मांसस्य मांसवर्द्धनं सामान्यं कर्मा, शोणितस्य शोणितवर्द्धनमित्येवमादि। द्रव्याणां द्रव्यं कार्य म्। पृथिवयाकारणं. स्यात् ; कर्म तूत्पन्न करोत्येव परं संयोगविभागौ न तु कारणान्तरं पश्चादान्यपेक्षते, संयोगविभागाश्रयं प्रत्यासत्तिस्तु अपेक्षत एव, सा च पूर्वसिद्धव, न च चरमभाविकारणान्तरा
For Private and Personal Use Only