________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः]
सूत्रस्थानम् । पैच्छिल्यं वैशद्य वैशद्य खरः खरं ममृणो मसृण स्थौल्यं स्थौल्यं सौक्ष्म्य सौक्ष्म्य सान्द्रः सान्द्रं द्रवखं द्रवलमित्येवमेषां कर्माणि सजातीयानि विजातीयानि चारभन्त ।
तत्र कुत्र कस्यानुवृत्तिः स्वरूपेणान्यरूपेण वा भवतीति उच्यते। “न द्रव्यं कार्य कारणश्च वधति ।" गन्धमात्रादिपृथिव्यादिद्रव्यं कार्यारम्भे स्वस्वसजातीयं द्रव्यमारभमाणं यदन्येनारभ्यमाणं कार्य स्वस्वविजातीयं मूर्त्यादिकं न वधति न हन्ति । न च स्वारम्भकं कारणं त्रिगुणविकारात्मकमहङ्कारं निगुणश्च कालक्षेत्रक्षप्रधानानि वरति । स्वस्त्रारम्भकानुत्त्यैव स्वस्वसजातीयं कार्यमारभत इति। “उभयथा गुणाः।” तत्कार्यारम्भे पृथिव्यादिद्रव्यस्था गुणा गन्धादयः खलु स्वस्खसजातीयं गन्धविशेषादिकमारभमाणा यदारभ्यमाणं स्वस्वविजातीयं कार्य स्वारम्भकं कारणश्चाहकारादिस्थं गुणांशमुभयथा कुत्रचिद्धता कुत्रचिन्न हवा सजातीयं गुणविशेषमारभन्ते। यथा पारदगन्धकयोः संयोगे कजलीभूते द्रव्ये पारदस्थः शुक्लः शुक्ल विशेषमारभमाणो गन्धकस्थः पीतः पीतमारभमाणः पारदस्थतीक्ष्णेन तैक्ष्णामारभमाणेन विरोधिना वध्यते । सर्वत्रैव शौक्ला सत्त्वगुणयोनिकं तमोगुणयोनिकेन तैक्ष्णेन विरोधिना वध्यते, गन्धकस्थपारदस्थौ च लोहित-*-शुक्लौ रजःसत्त्वयोनिको वध्यते । तयोः शुक्ललोहितवधे तैक्षणासमानयोनिः कृष्णोऽभिव्यज्यते। इति पारदगन्धकोभयात्मके काये श्वेतपीतमेलनेन सम्भायं कार्यं यद्वर्ण तत्तीक्ष्णगुणेन वध्यते तत्कारण शुक्ललोहितं हखेति। एवं हिङ्गले पारदगन्धकाभ्यामारभ्यमाणे यत्रविशेषे वह्निना पच्यमाने रजोबहुलयोनिकेन तीक्ष्णेन सत्त्वतमोयोनिको शुक्लकृष्णौ वध्येते। पारदस्थशुक्लगन्धकस्थपीतमेलनेन सम्भाव्यं कार्य वर्णश्च वध्यते। रजोयोनिकलौहित्यश्चाभिव्यज्यते इति। एवं हरिद्राचर्ण संयोगेऽपि लौहित्यमभिव्यज्यते, चूर्णस्थतैक्ष्णेन हरिद्रास्थशुक्लकृष्णवधे। अथाबधे यथा। हिङ्गु लवङ्गभस्मसंयोगे श्वेतलोहितवर्णमेवोभयात्मकं भवति पाटलवणम् । न चात्र हिङ्ग लस्थं लौहित्यं वङ्गभस्मस्थ शौक्लाश्च केनापि वध्यते । एवं शुक्लसूत्रनिम्मितपटस्य शौक्लामेवेति । ।
कार्यविरोधि कर्म । कर्त्तव्यस्य क्रिया कर्म तु कार्याविरोधि। तत् चोतरदेशसंयोगे च कर्तव्ये नान्यत् कारणं पश्चातकालभावि अपेक्षते, द्रब्यन्तु यद्यपि संयोगविभागकारणं युगपद्वति तथापि तदुत्पन्न सत् यदा कर्मयुक्तं भवति तदैव संयोगविभाग
* गन्धकस्य चतुर्विधवर्णत्वात् लोहितपदप्रयोगः।
For Private and Personal Use Only