________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः] सूत्रस्थानम्।
११५ दीनां कार्य पृथिव्यादिद्रव्य कार्य सामान्यम् । द्विवप्रभृतयः सङ्ख्याः पृथक्वसंयोगविभागाश्च। द्रव्याणां द्विखादिसङ्ख्याः पृथकखसयोगविभागाश्च गुणाः कार्य सामान्यम् । सर्वाणि द्रव्याणि द्विवादिसङ्ख्यावन्ति न खेकानि । पृथक् च संयुक्तानि च विभक्तानि चेति । संयोगादीनां द्रव्यम् । सयोगादीनां द्रव्यं कार्य सामान्यमं । अनेकद्रवयसयोगाद्धि सर्वाणि द्रव्याणि जायन्ते इति ।
रूपाणां रूपम्। रूपाणां कार्यसामान्यं लोहितादिरूपम् । एतन रसादयो व्याख्याताः । समवायित्वं यथाकारणमपि । यथाकारणं क्रियागुणवत् समवायिकारणमिति समवायिवं द्रव्यस्य सामान्यम् । द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमन्यापेक्षः समवायिकारणं गुण इति गुणानां समवायिकारणखं सामान्यम्। द्रव्याश्रय्यगुणवत् संयोगविभागेष्वनपेक्षकारणमन्यापेक्ष समवायिकारणं कम्मति, समवायिकारणसमुत्क्षेपणादीनां कर्मणां सामान्यम् । गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् । गुरुखादीनामुत्क्षेपणं कार्यसामान्यम् । गुरूणि हि द्रव्याणि शक्यन्ते उत्क्षेप्तु हस्तादिप्रयत्न न संयोगान तु लघूनि । संयोगविभागवेगाश्च कर्मणाम । कर्मणामुत्क्षेपणादीनां कार्यसामान्यं संयोगो विभागश्च वेगश्चेति। कर्मणा विना संयोगो विभागो वेगो वा न जायते। सन्नित्यमद्रव्यवत् कार्य कारणसामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः । सद्वस्तु नित्यमुत्पद्य पुनर्न जायते इति। अद्रव्यवत् द्रव्यानारब्धकार्यमुपादाननिष्पन्न कारणमुपादानसमवायिकारण सामान्य समानार्थता विशषस्वसमानार्थता तत्सामान्यवत् तद्विशेषवच्च सर्व नवद्रव्यसप्तदशगुणपञ्चकर्म। अव्यक्तं नामात्मा कालक्षेत्रशप्रधानानीति त्रयोपादानकः कार्य एवाद्रव्यवांश्च न हि कारणभूतकालादीनि द्रव्याणि। कालश्च सन्नित्यश्चाद्रव्यवान् खल्वव्यक्तस्थकालांशोद्रेक त्रिगुणविशिष्टः संवत्सर इत एव काय्यः। दिशोऽपि चाद्रव्यवत्यः सात्त्विकाहङ्काराज्जाता ह्याकाशाधिदेवतासत्त्वादिगुणयोगात् प्राच्यादिरभूदिति ततश्च कार्यो । खादीनि मनचाहकारिकाणि रूपादयश्च सप्तदश गुणा आव्यक्तिकाहङ्कारिकसत्त्वादिगुणोपादाना इत्यद्रव्यवन्तः कार्याश्च । रजोगुणोपादानानि कर्माणि पश्चाद्रव्यवन्ति कार्याणि। त्रीण्येव सत्तादिद्रव्यखादिसामान्यवन्ति । पृथिवीलादिविशेषवन्ति चेति त्रयाणामविशेष इति । पेक्षता कर्मणः। अथ कर्मशब्देन वमनादीनां तथाऽदृष्टस्य तथा क्रियायाश्चाभिधीयमानत्वात् । कस्य कर्मण इदं लक्षणम् इत्यत आह-कर्त्तव्यस्य क्रिया कर्मेति । एतेन क्रियारूपस्य कम्मण इद लक्षणं नाहटादेरिति ॥ २४ ॥
For Private and Personal Use Only