________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२ अध्याय:
सूत्रस्थानम् ।
११४५ भवन्ति चात्र । भिषकछद्म प्रविश्येव व्याधितांस्तकयन्ति ये। वीतसमिव संश्रित्य वने शाकुनिका द्विजान् ॥ श्रु तदृष्टक्रियाकाल-*-मात्रास्थानवहिष्कृताः। वर्जनीया हि मृत्योस्ते चरन्त्यनुचरा भुवि ॥ वृत्तिहेतोभिषङ्मान-पूर्णान मुखविशारदान् । वर्जयेदातुरो विद्वान सास्ते पीतमारुताः॥ ये तु शास्त्रविदो दक्षाः शुचयः कर्मकोविदाः। जितहस्ता जितात्मानस्तेभ्यो नित्यं कृतं नमः ॥६॥ गङ्गाधरः-अत्र भवन्ति श्लोकाः। भिषगित्यादि। भिषक्छद्म प्रविश्य भिषग्वेशं धृखा ये भिषजः खल्वेवमुक्तपकारेण व्याधितांस्तकयन्ति, यथा शाकुनिकाः पक्षिघातिनो व्याधा वने वीतंसं पक्षिवन्धनधारणजालसप्त. नलिकादिकं संश्रित्य गृहीसा द्विजान् पक्षिणस्तकेयन्ति अन्वेषणां कुर्वन्ति तथा ये भिषक्छद्म प्रविश्य व्याधितानुक्तरूपेण तकयन्ति ते श्रुतादिवहिष्कृता विज्ञ वज्जनीयाः। कस्मात् ? यतः श्रुतादिवहिष्कृताः। गुरुमुखाचिकित्साशास्त्रं न हि तैः श्रुतं, न च चिकित्साक्रिया दृष्टा, न च भेषजप्रयोगकालज्ञाने मात्रामा नापि स्थानज्ञा एभ्यो वहिष्कृता यस्मात् तस्मात् ते वज्जनीयाः। हि यस्मात् ते तथाविधश्रुतादिवहिष्कृता भिपजो मृत्योरनुचराः सन्तो भुवि चरन्ति । ते तहि किमर्थ राष्ट्राणि चरन्ति तदाह-वृत्तिहेतोरित्यादि । वृत्तिहेतोधनहतोस्ते भिषङ्मानपूर्णा मुखविशारदाः स्वमुखेनैव स्ववैशारद्य वदन्तो नानाविधालापं विज्ञवत् कुन्बेन्तो राष्ट्राणि चरन्ति न खातुरप्राणाभिसरणहेतोः। तस्माद. विद्वानातुरस्तान् वैद्यान् वज्जयेत् । ते हि पीतमारुताः सर्पाः सद्यःप्राणघातिनः शून्योदरा अर्थमात्रलोभिन आतुरस्य भद्राभद्रानाङ्क्षिणः । इति भिषक्छमचरप्रभेदमभिप्रत्य सिद्धसाधिता वैद्या इह न पृथगुदाहृता इति बोध्यम् ।
ननु तर्हि कीदृशान् वैद्यानुपसेवेरन्निति ? अत आह-ये खित्यादि । ये तु वैद्याः शास्त्रविदादिलक्षणास्तेभ्यो नित्यं नमस्कृतं विज्ञ रिति॥६॥
चक्रपाणिः-वीतंसः पक्षिबन्धनम् ; श्रुतं शास्त्रे श्रवणम् ; दृष्टं कर्मदर्शनम् ; क्रिया * मात्राज्ञानवहिष्कृत इति कचित् पाठः ।
For Private and Personal Use Only