________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिशप्राणायतनीयः
११४४
चरक-संहिता। दशप्राणायतनीयः कृत्वा, प्राकृतजनसन्निपाते चात्मनः कौशलमकुशलवत् उन्नयन्ति अधीरवच्च धैर्य्यमपवदन्ति धीराणाम्, विद्वजनसन्निपातं प्रतिभयमिव कान्तारमध्वगाः परिहरन्ति दूरात् । __यश्चैषां क्वचित् क्षुद्रावयचे * भवत्युपयुक्तस्तमप्रकृते प्रकृतान्तरे वा सततमुदाहरन्ति, न चानुयोगमिच्छन्त्यनुयोक्तुं वा, मृत्योरिवानुयोगादुद्विजन्ते। __न चैषामाचार्यः शिष्यो ब्रह्मचारी वैदिको वापि कश्चित् प्रज्ञायत इति ॥५॥
कृखान्य देशमाश्रयन्ति ; यत्र प्राकृता अज्ञा जना वर्तन्ते तं देश गच्छन्ति। तत्प्राकृतजनसन्निपाते चात्मनो निजस्य चिकित्साकम्मणि कौशलमकुशलवदुन्नयन्ति। अधीरवच्चापण्डितवच्च धीराणां पण्डितानां धैर्य पाण्डित्यमपवदन्ति पण्डितवैद्यानामपवादं कुव्वन्ति। न च पण्डितसमाज गच्छन्ति। दूरादेव विद्वज्जनसन्निपातं परिहरन्ति यथाध्वगाः पथिकाः कान्तारं दुर्गम पन्थानं प्रतिभयं भयङ्करं परिहरन्ति तद्वत् । यश्चेत्यादि । अथैषां भिषक्छ चराणां भिषजां चिकित्सया कचित् क्षुद्रावयवे रोगे यः कश्चिद यदुरपयुक्तो भवत्यारोग्यं प्राप्नोति, तदा तं प्रतिकारमप्रकृते प्रकृतान्तरे वा स्थाने यत्र प्रतिकारो न प्रकृतः, यत्र वान्यत्र कस्यचित् प्रतिकारः प्रकृतस्तं सततमुदाहरन्ति वयमस्य प्रतिकारमकुम्मत्येवं संलपन्ति। न चानुयोगं परः कर्तव्यमनुयोगमिच्छन्ति । अनुयोक्तु वा परैरनुयोक्त वेच्छन्ति। मृत्योयेथा लोका उद्विजन्ते तथा तेऽनुयोगादुद्विजन्ते। न चैषामित्यादि। एषां भिषक्छनचराणां भिषजां क आचाय्यः शिक्षकः को वा शिष्यः को वा स ब्रह्मचारी समाध्यायी को वा वैदिकः कश्चिदपि न कैरपि विज्ञायते इति ॥५॥
मव्याजम् ; अकुशलवदिति यथा अकुशलाः परस्परविरुद्धमात्मकौशलं वर्णन्ति तथेत्यर्थः ; अधीरवदिति उच्चाटरवाः सन्तः ; उपयुक्त इति ज्ञातः ; अनुयोगं पृच्छाम् ॥ ४॥५॥
* यश्चैषां कश्चित सूत्रावयवो भवत्युपयुक्तः इति चक्रपाणिसम्मतः पाठः ।
For Private and Personal Use Only