________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११३८
चरक-संहिता। । दशप्राणायतनीयः द्विविधाः खलु भिषजो भवन्त्यग्निवेश! प्राणानामेकेऽभिसरा हन्तारो रोगाणाम्, रोगाणामेकेऽभिसरा हन्तारः प्राणानामिति ॥ २॥
एवंवादिनं भगवन्तमात्रं यमग्निवेश उवाच-भगवंस्ते कथमस्माभिर्वेदितव्या इति॥३॥
प्राणायतनानि दश। इन्द्रियाणि इन्द्रलिङ्गान्यात्मनो जीवनलिङ्गानि यद वक्ष्यत्यरिष्टं किंवा श्रोत्रादीनि। विज्ञानमायुर्वेदादिशास्त्रं येन तत्त्वार्थों विशेषेण ज्ञायते। चेतना नाम मूलं ब्रह्म यदेव प्राक् सगादेकमेवासीत्, सव्वेषां चैतन्यहेतुः। हेतु त्रिविधं रोगस्यारोग्यस्यैकमिति चतुविधम् । कालवुद्धीन्द्रियार्थानां योगम् । आमयान् शारीरमानसान यो जानीते स एव विद्वान प्राणाभिसर इत्याख्यो भिषगुच्यते।
ननु य एतान् न विजानीते स किं न भिपगिति ? अत आह-द्विविधा इत्यादि। तिस्रषणीये त्रिविधा भिपज इति । भिषक्छाचराः सन्ति सन्त्येके सिद्धसाधिताः। सन्ति वैद्यगुणयुक्तास्त्रिविधा भिषजो भुवीति यत् त्रिवियं वैद्यमुवाच, तत्र वैद्यगुणयुक्तो भिषक् प्राणायतनादिक्षानवान् भिषक् प्राणाभिसर उच्यते, नेतरौ । कस्मादिति अत उच्यते-प्राणानामित्यादि। एके वैद्याः प्राणानामभिसरा रोगवतां प्राणानामानेतारो रोगाणां हन्तारस्ते प्राणाभिसरा उच्यन्ते। अपरे चैके भिपजो रोगवतां रोगाणामभिसरा आनेतारः प्राणानां हन्तार इति। ते द्विविधाः सिद्धसाधिताः केचित् केचिद्भिपकछ माचरा इति । त्रिविधा भिषजो भवन्त्यग्निवेश ॥२॥
गङ्गाधरः-एवंवादिनमात्रेयमग्निवेश उवाच भगवन्नित्यादि ।।३।।
चेतनाहेतुरात्मा चेतनासमवायिकारणत्वात, किंवा वेतनाशब्देनामा, हेतुशब्देन तु व्याधानां जनकहेतुर्निदानरूपस्तथा शमकहेतुर्भपजरूप उच्यते : आमय शब्देन च लिङ्गमुच्यते ; तेन, आध्यात्मिकानि इन्द्रियादीनि वाह्यानि च हेतुलिङ्गोपधानि यो जानीत इत्युक्त भवति । एतावच्च एतच्छास्त्रं, यदाध्यात्मिकानीन्द्रियाणि तथा हेतुलिङ्गोषधानि च प्राणाभिसरा महाचतुष्पादे उक्ताः सर्वचिकित्साया वैद्याधीनत्वेन यादृशो वैद्य उपादेयो यादृशश्चानुपादेयस्तद्दर्शनञ्च कौशलात् सूत्रस्थानार्थसंग्रह इति दर्शयति । द्विविधा इत्यादि । रोगाणामभिसरा इति रोगाणामानेतारः ॥१-३
For Private and Personal Use Only