________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकोनत्रिशोऽध्यायः। अथातो दशप्राणायतनीयमध्यायं व्याख्यास्यामः,
इतिह स्माह भगवानात्र यः ॥ १॥ दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः । शङ्खौ मर्मत्रयं कण्ठो रक्तं शुक्रौजसी गुदम् ॥ तानीन्द्रियाणि विज्ञानं चेतनाहेतुमामयान् ।
जानीते यः स वै विद्वान् प्राणाभिसर उच्यते ॥ गङ्गाधरः-ननु भो अन्नमुक्तं, तत्र चोक्तं-प्राणाः प्राणभृतामन्नमिति, प्राणास्तु कुत्र प्रतिष्ठिता भवन्तीत्यतो यत्र प्राणाः प्रतिष्ठितास्तदुपदेष्टु दशप्राणायतनीयमारभते-अथात इत्यादि। सर्व पूवेवद् व्याख्येयम् । अध्यायस्यादौ दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिता इति तदर्थ दशप्राणायतनमधिकृत्य कृतोऽध्याय इति दशप्राणायतनीयः ॥१॥
गङ्गाधरः-दशैवेत्यादि। आयुर्वेद विदः खलु, प्राणा येषु प्रतिष्ठिताः, तानि प्राणानां प्रतिष्ठाधिकरणानि त्वायतनानि दशैवाहुः नातिरिक्तानि । इहायतनं प्रतिष्ठास्थानं न तु स्थितिस्थानम् ; प्राणा येषु प्रतिष्ठिता इत्युक्तेः। स्थितिस्थानं हि, हृदि प्राणो गुदेऽपानः समानो नाभिदेशगः। उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः॥ इत्येवमादुक्तम् । प्रतिष्ठास्थानन्तु तदवोच्यते,-यदुपघातेन प्राणोपघातः स्यादिति। बहुवचनात् पञ्च प्राणा इति ख्यापिताः। तानि दशायतनानि द्वौ शङ्खौ, मम्मंत्रयं-शिरो हृदयं वस्तिश्च, कण्ठप्रदेशश्च रक्तं शुक्रमोजश्च गुदञ्चेति दश।।
ननु किमर्थमेतदुपदिश्यत इत्यत आह-तानीत्यादि । तानि शङ्खादीनि चक्रपाणिः-सम्प्रत्यध्यायद्वयेऽवशिष्टे वक्तव्ये पूर्वाध्याये "प्राणायतनसमुत्थः' इति प्राणायतनशब्दकीर्तनात् दशप्राणायतनीय उच्यते, किंवा, अयं दशप्राणायतनीयः सूत्रस्थानसंग्रहः, शेषाध्यायस्तु सर्वतन्त्रसंग्रह इति पश्चादुच्यते । इयमर्थपरा संज्ञा, न शब्दानुकारिणी। आयतनानीवायतनानि , तपघाते प्राणोपघातात् तन्नाशात् प्राणनाशादित्यर्थः, न पुनः प्राणस्य जीविताख्यस्य शरीरोन्द्रयसत्त्वात्मसंयोगरूपस्य शङ्खादय एव परमाशयास्तस्य कृत्स्नशरीराद्याश्रयत्वात् । मर्मत्रयमिति हृदयवस्तिशिरांसि। तानीति शङ्खादीनि ; विज्ञानं बुद्धिः ;
For Private and Personal Use Only