SearchBrowseAboutContactDonate
Page Preview
Page 1150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९श अध्यायः सूत्रस्थानम् । ११३८ भगवानुवाच--य इमे कुलीनाः पर्यवदातश्रुताः परिदृष्टकर्माणो दक्षाः शुचयो जितहस्ता जितात्मानः सर्वोपकरणवन्तः सन्द्रियोपपन्नाः प्रकृतिज्ञाः प्रतिप्रतिज्ञास्ते ज्ञयाः प्राणानामभिसरा हन्तारो रोगाणाम्। तथाविधा हि केवले शारीरज्ञाने शरीराभिनिवृत्तिज्ञाने प्रकृतिविकारज्ञाने च निःसंशयाः, सुखसाध्यकृच्छ्रसाध्ययाप्यप्रत्याश्यानाञ्च रोगाणां समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषज्ञाने व्यपगतसन्देहाः, त्रिविधस्यायुवेदसूत्रस्य गङ्गाधरः--तं भगवानात्रेय उवाच -य इम इत्यादि । कुलीनाः सत्कुलजाः स्वकुलाचारधर्मरताः। पय्यवदाता अधीतशास्त्रेऽथेसंशयाभावेन निर्मलाः श्रुता अर्था येषां ते। परिदृष्टकम्र्माणः परि सव्वतोभावेन दृष्टानि चिकित्सितकर्माणि यस्ते । दक्षाः कम्मसु कुशलाः । शुचयः । जितहस्ताः यस्य यस्य क्रियां कुर्वन्ति तस्य तस्यैव रोगजयो भवति ते जितहस्ताः । जितात्मानः जितकामादिमानसधर्माणः। सौपकरणवन्तः शस्त्रयन्त्रवस्तिनेत्रादुरपकरणवन्तः। सव्वेंन्द्रियोपपन्नाः। प्रकृतिज्ञा आतुरादीनाम् । प्रतिपत्तिज्ञा या क्रिया येन प्रकारेण क्रियमाणा तेषामातुरादिषु प्रतिपत्तिर्भवति तजज्ञाः। ईदृशा ये भिषजस्ते प्राणाभिसराः प्राणानामभिसरा हन्तारो रोगाणामिति । . कस्मादिति अत आह-तथाविधा हीत्यादि । हि यस्मात् तथाविधा भिषजः केवले कृत्स्ने शारीरक्षाने शरीराभिनित्तिज्ञाने च प्रकृतिज्ञाने विकारज्ञाने च निःसंशयाः, सुखसाध्यादीनां रोगाणां निदानादिविशेषज्ञाने व्यपगतसन्देहाः। त्रिविधस्येति --य इम इत्यादिनायुर्वेदस्य सव्वतन्त्राणामेकैकतन्त्रविद्यावन्तः सर्वे भिषजः प्राणाभिसरा भवन्तीति ख्यापयिखा स्वतन्त्रविदुषां प्राणाभिसरत्वं वक्तमेतदादिभिर्वाक्यैः स्वतन्त्राभिधेयान्याह। त्रिविधस्य चक्रपाणिः-प्रतिपत्तिज्ञा इति तदात्वे कर्त्तव्यज्ञाः, शरीराभिनिवृत्तिज्ञान-यथा शरीरं शुक्रशोणितसंयोगादिभ्य उपजायते, तथा ज्ञानम् ; प्रकृतिविकारज्ञानं सांख्यनयेन शारीरे वक्ष्यमाणम् : त्रिविधस्यायुर्वेदसूत्रस्येति हेतुलिङ्गौषधज्ञानमित्यस्य। इतः प्रभृति “तन्त्रोद्देश For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy