________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। विविधाशितपीतीयः लौकिकं नाश्रयन्त्येते गुणा मोहरजःश्रितम् * । तन्मूला बहवश्चैव रोगाः शारीरमानसाः ॥ ११ ॥ प्रज्ञापराधाद्धाहितानान् पञ्च निषेवते । संधारयति वेगांश्च सेवते साहसानि च ॥ तदात्वसुखसंज्ञषु भावेष्वज्ञोऽनुरज्यते । रज्यते न तु विज्ञाता विज्ञाने ह्यमलीकृते ॥ न रागानाप्य विज्ञानादाहाानुपयोजयेत् ।
परीक्ष्य हितमश्नीय.द देहो ह्याहारसम्भवः ॥ इत्यादि। श्रुत्यादयो हि परीक्षकम् आश्रयन्ति परीक्षको हि ज्ञानवान् भवति न वशः। तस्मादते श्रुत्यादयो गुणा मोहरजःश्रितं लौकिक शानं नाश्रयन्ति । तन्मूलाहिताहितपरीक्षामन्तरेण प्रियद्रव्यसेवनमूला बहनश्च रोगाः शारीरमानसास्तं मोहरजःश्रितं लोकिकं जनमाश्रयन्तीति ।११।।
गङ्गाधरः–कमिन्द्रियगता व्याधयश्च म्युरिति ? अत आह-प्रज्ञ त्यादि। हि यस्मात् अशः पुमान प्रज्ञापराधादेवाहितान पश्चार्थान निपेक्ते, वेगांश्च सन्धा रयति, साहसानि च सेवते तदाब सुखसंज्ञेषु तात्कालिकमात्रसुखकरेषु भावेषु अनुरज्यते शानाभावात् न तु विज्ञाता तेवनुरज्यते । करमात् ?-विज्ञाने होत्यादि । हि यस्मात् विज्ञानेऽमलीकृते स ह्याहारान् प्रियान् रागान् नोप. योजयेन्नाप्यज्ञानादुपयोजयेत्। कथमुपयोजयेदिति ? अत उच्यते-परीक्ष्येत्यादि। विशाता विशानेन हिताहितं परीक्ष्य हितमश्नीयानाहितम् । दुःखक तासन्धानादिति भावः । हितमेवेत्यायतिविशुद्धमेव तदात्वे दुःखकरम्, प्रियमेव तदात्वे सुखकरमायतिविरुद्धम् ; लौकिका अपरीक्षकाः। परीक्षकं सौति-श्रुतमित्यादि। परीक्षक माश्रयन्त इति परीक्षके भवन्ति ; किंवा बुद्धयादिदेवता परीक्षकमाश्रयन्ते, यदुक्तम्,– “विशुद्धं ज्ञानदेवताः" इति ॥११॥
चक्रपाणिः-रजस्तम मूला रोगा भवन्ति, तदाह-प्रज्ञापराधादित्यादि। अहितार्थसेवादि च रोगं करोतीति भावः। तदात्वे सुखेविति वक्तव्ये यत् “सुखसंज्ञेषु” इति करोति, तत् तदात्वसुखस्यापथ्यःखानुबन्धसुखकर्तृतथा परमार्थतस्तदात्वेऽप्यसुखत्वं दर्शयति, यथा "सुख
* मोहतमाश्रतमिति वा पाठः।
For Private and Personal Use Only