________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०श अध्यायः
सूत्रस्थानम् ।
११३३ अजातानामनुत्पत्तौ जातानां विनिवृत्तये । रोगाणां यो विधिदृष्टः सुखार्थी तं समाचरेत् ॥ सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः। ज्ञानाज्ञानविशेषात् तु मार्गामार्गप्रवृत्तयः॥ हितमेवानुरुध्यन्ते प्रपरीक्ष्य परीक्षकाः । रजोमोहावृतात्मानः प्रियमेव तु लौकिकाः ॥ श्रतिद्धिः स्मृतिर्दाक्ष्यं धृतिहितनिषेवणम् । वाग्विशुद्धिः शमो धैर्यमाश्रयन्ति परीक्षकम् ॥ गङ्गाधरः--इत्थश्च सुखार्थी आरोग्यार्थी पुमान् तं विधि समाचरेत् ;यो विधिरजातानां व्याधीनामनुत्पत्तौ दृष्टो यश्च विधिर्जातानां रोगाणां विनिवृत्तये दृष्टः। कस्मादित्यत आह-सुखार्था इत्यादि। सर्वभूतानां सवाः प्रवृत्तयः सुखार्थी एव मता न तु दुःखार्थाः। ननु दृश्यन्ते बहाः प्रवृत्तयो दुःखहेतव इति, कथं मुखार्थाः सर्वाः प्रवृत्तयो मताः ? इत्यत उच्यते-ज्ञानेत्यादि। मार्गामार्गप्रवृत्तयस्तु सुखासुखहेतुप्रवृत्तयस्तु ज्ञानाज्ञान विशेषाद्भवन्तीति ; ज्ञान विशेषात् प्रकृतमार्गेण प्रवृत्तयो भवन्ति ताः सुखार्थाः, अज्ञान विशेषात् तु अमागेण अविधिपथेन प्रवृत्तयो भवन्ति ता दुःखार्था इति। याः प्रवृत्तयो दुःखार्था दृश्यन्ते ता अज्ञानादेव न तु ज्ञानादिति परीक्षकाः पुरुषाः हितमेव प्रपरीक्ष्यानुरुध्यन्ते कामयन्ते। देवादिकोऽनुदात्तेतमित्यनुपूर्वकः रुध कामे।
ननु कस्याज्ञानं ज्ञानं वा कस्य भवति ? इत्यत आह-रज इत्यादि। मोहस्तमः। रजोमोहामृतात्मानो लौकिकाः पुरुषाः प्रियमेवानुरुध्यन्ते न तु हिता हितं परीक्षन्ते। हितमेव कुतः परीक्षका इच्छन्तीत्यत आह-श्रुतिः कोष्ठ याति ; स्रोतोमुखविशोधनादिति अवरोधकापगमात् ; वायोर्निग्रहादिति क्षेप्तुर्वायोर्निग्रहात् प्राकृतं स्थानं कोष्ठं याति ॥ १०॥
चक्रपाणिः-इदानीं सङ्ग पेणाखिलव्याधिप्रतीकारं सूत्रयति-अजातानामित्यादि। यो विधिईष्ट इति कृत्स्ने तन्त्रे। ननु यदि सुखार्था सर्वप्राणिनां प्रवृत्तिस्तत् कथं कोऽपि अमार्गे प्रवर्तत इत्याह-ज्ञानेत्यादि। अज्ञानादेव सुखसाधनमिदमिति कृत्वापरीक्षका प्रवर्तन्ते, न तु
* दायमिति वा पाठः।
For Private and Personal Use Only